This page has not been fully proofread.

४. ]
 
दीपिकाख्यव्याख्योपेतम् ।
 
जन्म ब्रह्मकुले हरार्चन विधौ कृत्वा शिरःकृन्तनं
शक्तिर्वत्रिणि घोरदण्डदलनव्यापारशक्तं मनः ।
हेलोल्लासितकेलिकन्दुकनिभः कैलास उत्पाटित-
स्वत्किं रावण लज्जसे न हरसे चौर्येण पत्नी रघोः ॥८॥
 
५५
 
रावणं ज्ञात्वा अचलाशौर्याकुलवान् चौर्य करोपि तत्तु त्वयि न संभवतीत्याह-
जन्म ब्रह्मकुले इति । हरार्चनविधौ शिरःकृन्तनं कृत्वा चत्रिणि देवेशे शक्तिः ।
मनः घोरदण्डदलनव्यापारशक्तं ये घोरदण्डा दुर्निग्रहास्तेषां निग्रहव्यापारे शक्तं
समर्थम् । भवता कैलासो गिरिरुत्पाटितः । कीदृशः । हेलयाऽनायासेनोल्लासित
उद्गमितो यः केलये क्रीडार्थ कन्दुकः तत्सदृशः । यथैव केलिकन्दुकस्तथैव गिरिरिति
भावः । तत्तस्मादेवं चले सति चौर्येण यत् रघोः रामस्य पत्नी हरसे तत्किं कस्मान्न
लज्जसे ? गूढाक्षेपः ॥ ८ ॥
 
मैनाक: किमयं रुणद्धि पुरतो मन्मार्गमव्याहतं
शक्तिस्तस्य कुतः स वज्रपतनाद्वीतो महेन्द्रादपि ।
तार्क्ष्यः सोऽपि समं निजेन विभुना जानाति मां रावणं
हा ज्ञातं स जटायुरेष जरसा क्लिष्टो वधं वाञ्छति ॥ ९ ॥
रावणः सक्रोधं स्वगतं च अयं मैनाको गिरिः किम् ? किं वितर्फे । अयं कः
पुरतो भूत्वा अव्याहतं देवैरप्यखण्डितं मदीयं मार्ग रुणद्धि ? सपक्षत्वात्तस्य मैना-
कस्य शक्तिर्मन्मार्गरोधनसामर्थ्य कुतः । यतः स गिरिर्महेन्द्रादपि इन्द्रसकाशादपि
यद्वत्रपतनं तस्मादेव भोतः, इन्द्र एव मत्तो बिभेति । तन्निर्जितस्य गिरेमयि का
शक्तिरिति भावः । तर्ह्ययं तार्क्ष्योऽस्ति न सोऽपि गरुडः । निजेन विभुना समं वि-
ष्णुवलतुल्यबलं मां रावणं जानाति । रावयति स्वबलेन लोकानिति रावणः । हेति
कष्टम् । ज्ञातं एप स जटायुः । सकः । यो जरसा वार्धक्येन व्याप्तः सन् वर्ध
वांछति । हा कष्टं वृद्धस्य हनने किं यश इति कष्टम् । विजयोऽयमलंकारः । तदुक्तं,
दण्डिना - ' य: पूर्वोत्तरपक्षाभ्यां निर्णेता भवति स्वयम् । शब्दचातुर्यतो विज्ञैर्विजय:
समुदीरितः' इति ॥ ९ ॥
 
मा भैषी: पुत्रि सीते व्रजति मम पुरो नैष दूरं दुरात्मा
रे रे रक्षः क्व दारात्रघुकुलतिलकस्यापहृत्य प्रयासि ।