2023-03-19 23:53:14 by ambuda-bot
This page has not been fully proofread.
५४
:: हनुमन्नाटकं -
बाणेन दिव्येन रघप्रवीरस्ततो मृगं वक्षसि बद्धलक्ष्यः ।
विव्याध यावत्तरसा तपस्वी दशाननस्तावदिहाजगाम ॥४॥
ततो वनान्तरे । वाणेनेति । यावत् रघुवीरो' वाणेन मृगं विव्याथ, तांवदेव
तपस्विवेपधारी दशाननः इह सीतासमीपे आजगाभेत्यन्वयः ॥ ४ ॥
मारीचमृगयाव्यये रामे प्राप्ते च रावणे ।
भयादिव कुरङ्गीणामस्याः पश्यामि लोचने ॥ ५ ॥
मारीचेति । रामे मारीच मृगयाव्यग्रे सति रावणे प्राप्ते सति, अस्याः सीताया
लोचने भयात्कुरङ्गीणामित पश्यामि । किमप्यनिर्वचनीयनेन्नलौल्यं दृष्ट्वा ननन्देति
भावः ॥ ५ ॥
11
[ अङ्क:-
स व्याहरदर्मिणि देहि भिक्षामलंघयँलक्ष्मणलक्ष्मलेखाम् ।
जग्राह तां पाणितले क्षिपन्तीमाकारयन्तीं रघुराजपुत्रौ ॥ ६ ॥
स इति । स रावणो व्याहरदित्युवाच । किं तदाह । हे धर्मिणि, आतिथ्यदाना
दानपुण्यपापज्ञे, भिक्षां देहि । लक्ष्मणेन कृता या लक्ष्मणचिहस्य लेखा तामलंघय -
न्सन् तद्द्बहिरागत्य पाणितले क्षिपन्तीं भिक्षां ददतीं सीतां जग्राह हृतवान् । कीदृ-
शीम् । रघुराजो दशरथस्तत्पुत्रौ रामलक्ष्मणौ आकारयन्तीमाह्वयन्तीम् ॥ ६ ॥
रे रे भोः परदारचोर किमरेऽधीरं त्वया गम्यते
तिष्ठाधिष्ठितचन्दना चलतटः प्राप्तो जटायुः स्वयम् ।
मुञ्चैनां पतिदेवतां न खलु चेन्मच्चण्डतुण्डांकुश-
ऋरावस्करणवणासृगुरसः पास्यन्ति गृध्रास्तव ॥ ७ ॥
जटायुर्दशरथमैत्रीमनुस्मरन्रावणं ज्ञात्वा कथयति - रेरे इति नीचसंबोधने, भो
अहो परदारचोर, त्वया अधीरं तूर्ण यथा स्यात्तथा कि गम्यते ? धीरास्तु शनैर्ग -
च्छन्ति न त्वरया । अरे तिष्ठ । स्वयमहं जटायुः प्राप्तोऽस्मि । अधिष्ठितोऽधिवसितः
चन्दनाचलस्य मलयस्य तटो येन । एतेन प्राशस्त्यमुक्तम् । एनां मुञ्च । ननु इयमेव
प्रयातीति चेन्न । कीदृशी । पतिरेव देवता यस्याः सा । तां चेन्न त्यजसि तर्हि
तवोरसः सकाशावृधा मयं यच्चण्डं तुण्डं तदेवांकुशस्तेन यत्क्रूरमवस्करणं ततो ये
त्रणास्तेभ्यो निःसृतमसुश्रुधिरं पास्यन्ति । यद्वा एकमेव पदम् । व्रणेभ्यो निःसृत-
मसृग्यस्मंस्तदुरस उरः पास्यन्ति । कर्मणि पष्ठी ' तदवस्करणं प्रोक्तं तुण्डेनोद्भिद्य
कर्षणम् ' इति हलायुधः ॥ ७ ॥
.
Budg