2023-03-19 23:53:14 by ambuda-bot
This page has not been fully proofread.
४.]
दीपिकाख्यव्याख्योपेतम् ।
चतुर्थोऽङ्कः ।
आन्दोलयन्वि शिखमेककरेण सार्धं
कोदण्डकाण्डमपरेण करेण धुन्वन् । i
सन्ना पुष्पलतया पटलं जटानां
रामो मृगं मृगयते वनवीथिकासु ॥ १ ॥
हस्ताभ्यां समुपैति लेढि च तृणं स्पृश्यतां गाहते
गुल्मान्प्राप्य निवर्तते किसलयानाघ्राय चाम्राय च ।
भूयस्त्रस्यति पश्यति प्रतिदिशं कण्डूयते स्वाँ तनुं
दूरं धावति तिष्ठति प्रचलति प्रान्तेषु मायामृगः ॥ २ ॥
५३
आन्दोलयन्निति । एककरेण सार्धं विशिखमान्दोलयन्निति मृगयते अवलोक-
यति ॥ १ ॥
६
ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः
पश्चार्धेन प्रविष्टः शरपतनभयायसा पूर्वकायम् ।
दर्भैरर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा
पश्योद्विग्नप्लुतत्वाद्वियति बहुतरं स्तोकमुव्य प्रयाति ॥३॥
हस्ताभ्यामिति । मायामृगः प्रान्तेषु प्रचलति प्रान्तेषु शालाभ्याशेषु मायापूर्वकं
मृगजात्यनुकरणमाह- कदाचिदिति पदाध्याहारः सर्वत्रानुबध्यते । हस्ताभ्याशं हस्त-
ग्राह्यत्वं लेढि ' लिह आस्वादने' । न स्पृश्यतामस्पृश्यत्वम् । सुगमम् ॥ २॥
रामो मृगं लक्ष्मणं दर्शयति- प्रीवेति । ग्रीवाभङ्गेन अभिरामं यथा स्यात्तथा मुहु-
रनुपतति पश्चादवलोकयति स्यन्दने रथे बद्धा दृष्टिर्येन सः भूयसा पश्चार्धेन पश्चिम-
शरीरभागेन मदीयशरपातभयात्पूर्वकायं प्रविष्टः पश्चात्संकुचितगात्र इति । अर्धभ
तिर्द: कीर्ण विक्षिप्तं वर्त्म येन सः । कीदृशैः। श्रमेण विवृत्तमत्युद्घाटितं यन्मुखं
ततो भ्रंशिभिः पातुकैः । एनं पश्य उदग्रप्लतत्वादुत्कटोत्पतनाद्वियत्याकाशे बहुतरं
प्रयाति गच्छति भूमौ स्तोकमल्पं प्रयाति ॥ ३ ॥