This page has not been fully proofread.

५२
 
हनुमन्नाटकं -
 
[ अङ्क:-
रामांदिति । वरं रामो न रावण इत्यस्यायमर्थः । रामान्मरणे परत्र मोक्षः स्या-
दिह च स्वामिकार्यमित्यर्थद्वयमिति ॥ २४ ॥
 
सुललितफलमूलैस्तत्र कालं कियन्तं
दशरथकुलदीपे सीतयां लक्ष्मणेन ।
गमयति दशकण्ठोत्कण्ठितमोरतं द्रा-
कनकमयकुरंगं जानकी संददर्श ॥ २५ ॥
सुललितेति । इति विचार्य मृगो भूत्वा तत्पर्णशालाभ्यर्णे गतः । दशरथकुलदीपेः
रामे सीतया लक्ष्मणेन च सह तत्र कालं गमयति सति जानकी कनकमयकुरङ्गं
संददर्श । कीदृशम् । दशकण्ठस्य उत्कण्ठितेन उत्कण्ठया सीताहरणाभिलाषेण प्रेरित
प्रस्थापितमिति ॥ २५॥
 
देहं हेममयं हरिन्मणिमयं शृंगद्वयं वैद्रुमा-
श्वत्वारोऽपि खुरा रदच्छदयुगं माणिक्यकांतियुति ।
नेत्रे नीलसुतारके सुवितते तवच्चलं प्रेक्षितं
तत्तद्रत्नमयं किमत्र बहुना सर्वांगरम्यो मृगः ॥ २६ ॥
 
देहमिति । सुगमम् ॥ २६ ॥
 
सांगं मायाकुरंगं द्रुतनिधननिशाचारिमारीचमग्रे
धावन्तं सञ्चरन्तं क्षणमपि गहने जानकी याचते स्म
• रामं कामाभिरामं निशितशरधनुर्धारिणं लक्ष्मणेन
क्षिप्रं तद्रक्षणायोल्लिखिततटभुवा सोऽप्यगात्तद्वधाय ॥ २७ ॥
इति हनुमन्नाटके मारीचागमनं नाम तृतीयोऽङ्कः ॥ ३॥
साङ्गमिति । जानकी तं मायामृगं प्रति रामं याचते स्म । प्रार्थयामासेत्यर्थः ।
कीदृशम् । द्रुतं 'अचिरभावि निधनं यस्य द्रुतनिधनधासौ निशाचरश्च-
स चासौ मारीचश्च तम् । अत्रे धावन्तं अतिगहनेक्षणं यथा स्यात्तथा सञ्चरन्तम् ।
सोऽपि रामो लक्ष्मणेन सह तद्वधाय क्षिप्रमगात् । लक्ष्मणेनानुगत इत्यध्याहारो वा ।
कीदृशेन । तद्रक्षणाय सीतासंरक्षणार्थं लिखितौ धनुष्कोट्या तटौ द्वारोपान्तभागौ
यस्याः सा भूः कुटी येन राजधनुर्लेखां कोऽपि नाक्रमिष्यतीति ॥ २७ ॥ .
इति श्री मिश्रमोहनदास विरचितायां हनुमन्नाटकदीपिकायां
मारीचागमनं नाम तृतीयोऽङ्कः ॥ ३ ॥