This page has not been fully proofread.

दीपिकाख्यव्याख्योपेतम् ।
 
क्रीडाकल्पवटं विसर्पितजटं विश्वाम्बुजन्मावटं
पिष्टाण्डौघघटं घृतांधिशकटं ध्वस्तक्षमासंकटम् ।
वियुच्चारुरुचा विधूतकपटं सीताधरालम्पटं
भिन्नारीभघटं विरुग्णशकटं वन्दे गिरां दुर्घटम् ॥ २३ ॥
 
तत्रैव कुटी-
जानकी संन्यस्ताध्व परिश्रमा मुग्धावतारं पुराणपुरुषं वन्दते स्म ।
करणाजातानन्दा प्रणमति । अहं रामं वन्दे इत्यन्वयः । कीदृशम् । क्रीडानां नर-
सुरतिर्यगाद्यवताराणां कल्पवटं अवताराः यतः शक्तिमास्थाय क्रीडन्ति यथेच्छम् ।
ननु प्रतियुगावतारे जीवो न किं नेत्याह-विसर्पितवटं प्रकटोकृतविश्वतनुम् । ननु
विश्वजनकत्वेन तत्कृतदोपवान्कि नेत्याह-विश्वाम्बुजन्मावटं विश्वमेवाम्बुजन्म कमलं
तत्प्रकाशाय आ समन्ततः वटः सूर्यः । यथा सूर्यः पद्मं बोधयति नतु तद्गन्धादि गृह्णाति
तथेःधरोपीक्षयैव करोति नतु तद्दोपभाक् ।' वट: सूर्ये तरौ लोके' इति शाश्वतः ।
सूर्यवन्नाशवान्कि नेत्याह- पिष्टाण्डौघघटं चूर्णांकृतब्रह्मांडसमूहम् । स्वयमेव नाशकृदि-
त्यर्थः । तर्हि सर्वानेव नाशयति किं नेत्याह - घृताङ्मिशकटं घृत हृदये स्वामी
यैस्ते घृताङ्मयो भक्तास्तेयां संसारोत्तारणाय वाह्यं पोतमिति । एतदेव दर्शयति-
ध्वस्तं दूरीकृतं क्षमायुक्तानां अम्बरीपादीनां सङ्कटं येन तम् । मध्यमपदलोपी समासः।
तर्हि भक्तपालकत्वाद्विपम: किं नेत्याह- विद्युदिव चारुरुकू यस्याङ्गदीप्तिस्तया
विधूतः कपटो मायाकृतदम्भो येन तम् । अतो यः कोऽपि तद्रूपं स्मरति
तस्य दम्भक्षतिर्नेतरेपाम् । अतो ज्ञानाज्ञानाभ्यां जीवानामेव त्रिपमत्वं नतु
तवेति भावः । ननु एतादृक्कथं प्राप्यते तत्राह- सीताधरालम्पटं भक्तार्थमावि-
र्भूतमित्यर्थः । ननु तर्हि कामी किं नेत्याह- भिन्ना अरयः कामादय एवेभा मतङ्ग-
जास्तेषां घटा: समूहा येन तम् । ननु जितकामादित्वादिरहितैकरिपुः किं नेत्याह ।',
विरुग्णशकटं विशेषेण रुग्णाः खण्डीकृताः शकटा दैत्यराजानो येन ' शकौ यवन-
राक्षसौ ' इति धरणिः । 'टो महेश्वर आख्यातः ' इत्येकाक्षरः । नन्वेवं मां सर्वे
किं न विद्युरिति चेन्न । गिरां दुर्घटं वाचामगोचरम् । अनिर्वचनीयमित्यर्थः ॥ २३॥
अथ मारीचः -
 
अतीताना
गतवर्तमानत्रिकालदर्शनो लंकापतेराज्ञामासाय
चिन्तयामास ।
 
३. ]
 
रामादपि च मर्तव्यं मर्तव्यं रावणादपि ।
उभयोयदि मर्तव्यं वरं रामो न रावणः ॥ २४ ॥
 
५२