This page has not been fully proofread.

हनुमन्नाटकं -
 
[ अङ्क:-
द्योतयति । कल्याणानां निधानं निधीयन्ते यस्मिंस्तदिति विग्रहः । कलिमलमथनम्।
एतेन पापहारित्वमुक्तम् । कविवरवचसां वाल्मीक्यादिवाचाम् एकं विश्रामस्थानम् ।
एतेन तदितरस्यासद्वर्णनत्वमुक्तम् । एतेन पत्रयेणैहिकैश्वर्यप्रदत्वमुक्तम् । पारलौकि-
कश्वयप्रदत्वमाह-पावनानां ब्रह्मादीनामपि पावनम् । एतेन तत्तल्लोकप्रदत्वमुक्तम् ।
अतः पारलौकिकैश्वर्यप्रदत्वमायाति । अथ मोक्षप्रदत्वमाह - परपद्प्राप्तये परस्मिन्त्र-
ह्याण पदं स्थानं तत्प्राप्तये प्रस्थितस्य मुमुक्षाः पाथेयं मार्गे साधु । नतु नाम्नैव मोक्षः
कथं धर्मादीनां सत्त्वशोधकत्वेन मोक्षदत्वमिति चेत्तत्राह धर्मद्रुमस्य वीजम्
नाम्नैि कीर्तिते सर्वे धर्माः कृता भवन्ति । अथोत्पत्तिवीजे पुप्पफलादिकं सर्वमस्तीति ।
सज्जनानाम् ' जीवनानाम् ' इति वा पाठः । जीवनं प्रकृतिस्तस्यापि जीवनं चेतनकर्तृ ।
उक्तं च-'यतो जीवत्वमायाति जीवः प्रकृतितः स्वतः । इति । एतैर्विशेषणैर्मो
क्षप्रदत्वमुक्तम् ॥ १ ॥
 
:
 

 
'W'
 
पातु भीस्तनपञ्चभमकरीमुद्रातरःस्थलो
देवः सर्वजगत्पतिर्मधुवधूवक्राब्जचन्द्रोदयः ।
क्रीडाक्रोडतनोर्नवेन्दुविशदे दंष्ट्रांकुरे यस्य भू-
भति स्म मलयाब्धिपल्वलतलोत्खातैकमुस्ताकृतिः ॥ २ ॥
 
इदानीं वर्णनीय नायकगुणानाह - पात्विति । स देवो विलसनशीलः श्रीरामो
वः पातु । कोदृक् । श्रियः स्तनयोर्यः पत्रभङ्गः पत्ररचना तत्र या मकरीमुद्रा तया-
ङ्कितोरःस्थलः । एतेन शृङ्गारित्वं सूचितम् । सर्वजगत्पतिः । एतेन रञ्जितलोकत्व-
मुक्तम् । पुनः कीदृक् । मधुवधूवक्राण्येवाव्जानि कमलानि तत्संकोचनाय चन्द्रो-
दयः । स कः । यस्य नवेन्दुविशदे द्वितीयचन्द्राकारे दंष्ट्रांकुरे भूर्भाति स्म ।
क्रीडायै धृता वराहतनुर्येन । किंभूता भूः । प्रलयाव्धिरेव पल्वलमल्पसरस्तस्य तलं तत
उत्खातो य एकमुस्तस्तम्बस्तदाकारा । एतेन पदद्वयेनातिकल्पत्वमुक्तम् । उक्तं च
'रसोदधौ - ' दाता सद्गुणशीलः सुवयोरूपान्वितः परप्रेमी 1 विद्यावानतिकल्पो
रञ्जितलोको मतोऽनेन ॥ इति ॥ २ ॥
 
यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो
बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः ।