This page has not been fully proofread.

हनुमन्नाटकं -
 
[ अङ्क:-
लक्ष्मणस्तत्रैव तत्कुटीरमणीयतामालोक्य - एपेति । हे रघूत्तम, एषा पञ्चवटी
कुटी । भवत्विति शेपः । कोशी । पञ्चवटी पञ्चवटयुक्ता । एतेनापि निबिड-
च्छायात्वमुक्तम् । पुनः कीदृशी । यत्र पञ्चावटी अस्ति । पञ्चानामवटानां समा-
हारः पञ्चावटी पञ्चवटवृक्षमूलेपु पञ्चसरस्वतगर्ता: । 'गर्तावटौ भुवि श्वभ्रे
इत्यमरः । पुनः कीदृशी । पान्थस्य प्रवासिनः एकमपेक्षितुं जलच्छायादिकं घटयते
उद्दीपयतीति । पुनः कीदृशी । पुरस्कृतौ शोभमानौ तटौ कुड्यापेक्षया द्वारभाग
यस्याः सा । पुनः कोशी । संषो दारापत्याभिनिवेशस्तस्य भित्तौ संचये वटी
तन्निवर्तकौपववाटिका । पुनः कीदृशी । यत्र यत्समीपे गोदा गोदावरी नटी नर्तकी-
रूपा । कीदृशी गोदा । तरङ्गितौ तटौ यस्याः सा । पुनः कीदृशी गोदा ।
कल्लोलैश्चञ्चन्तः पुटा जलनिर्गममार्गा यस्यां सा कल्लोलचश्चत्पुटी । पुनः
कीदृशी गोदा । अलौकिको य: पद्मामोदस्तस्य कुटी कृपिका । पुनः
कीदृशी । भवाब्धिशकटी पोतरूपा । पुनः कीदृशी गोदा । भूतक्रियादुष्कुटी
भूतानां क्रियाभिः सामान्यधर्मैर्दुष्प्रापा । बहुपुण्यलभ्येत्यर्थः । अन्न विशेषणेषु वटी -
नटीकुटीसादृश्यं चिन्त्यं विस्तारभयान्न त्रिवृतम् । अन्न भवाब्धिशब्दवलादन्यो-
ऽप्यर्थः सम्भवति । हे रघूत्तम, एपा कुटी भवतु । कीदृशी । पश्चानां पृथिव्यप्तेजो-
वाय्वाकाशादीनां वटी निहन्त्री 'वट विशातने' यां प्राप्य न पुनर्भव इति । यत्र
यस्यां पश्चानां रूपरसगन्धस्पर्शशब्दानां अवटी संगतिनिवर्तको विधिरस्ति । ' वट
वर्जने ' अत्रेन्द्रियाणि सुजयनीति । पान्थस्य मोक्षमार्गकृतप्रयाणस्य एका निरुपमा
घटी विश्रामस्थानं ' घट विश्रमणे ' । यत्र यस्यां गोदा गावो वेदवाच : ताः ददा-
तीति गोदा । मुनिसभा नटी प्रसिद्धाऽऽस्ते । 'नट आविर्भावे । कीदृशी गोदा ।
पुरस्कृता तटी समित्कुशसमृद्धिर्यया सा । ' तटच् समृद्धौ' । पुनः कीदृशी ।

षो दारापत्याद्यभिनिवेशस्तस्य भित्तौ सञ्चये वटी वज्ररूपा । 'वज्रं वटी पवि: '
सार: ' इति शाश्वतः । पुनः कीदृशी । रागादिपु प्राप्ता ये जीवास्तेषां तटिनी
निःसारणतीर्थवती । पुनः कीदृशी । कल्लोलैर्देवैरितस्ततश्चक्रम्यमाणानि निकुञ्जानि
यस्याः साः । ' कल्लोलो देववारिणो: ' इति धरणिः । ' निकुञ्जपुटयोः पुट: ' इति
विश्व: । पुनः कीदृशी । दिव्यो नैसर्गिको य आमोद: वासना तस्य कुटी क्षयकरी
 
निवासक्षययोः कुटी ' इति चरकः । अत एव भवाब्धिशकटी संसारतारणनौका ।
नन्वेवं चेत्सर्वे कथं न विद्युरिति चेत्तत्राह-भूतानां प्राणिनां क्रियाभिर्दुरहटैर्दुष्कुटी
दुष्प्रापेत्यर्थः । एते धातवो कविकल्पद्रुमे चिन्त्यास्तद्रूपं च ॥ २२ ॥