This page has not been fully proofread.

हनुमन्नाटकं -
 
[ अङ्क:-
तुल्याऽरुणकोमलचरणासि । भूः सदर्भा दर्भाकुरसहिता भवत्या गम्यते । मूर्ध्नि
धर्मः कठोरः । अतः शिवजात शिरः पादत्राणं वल्कलजं पत्रजं वा
विरचय ॥ १६ ॥
 
तत्र चित्रकूटे जानकी सकरुणं सवाष्पम्-
मूर्ध्ना बद्दजटेन वल्कलभृता देहेन पादानतिं
कुर्वाणे भरते तथा प्ररुदितं तारस्वरैः सीतया ।
येनोद्विनविहङ्गनिर्गततरुर्निःसंमदःश्वापदः
शैलेन्द्रोऽपि किलैष भूरिभिरभूत्साश्रुः पयःप्रस्रवैः ॥१७॥
सूर्ध्नति । पयःप्रनवैर्निर्झररूपैः एषः शैलेन्द्रश्चित्रकूटोऽपि साश्रुरभूत् । केन येन
रुदितेन । कीदृशः शैलेन्द्र । उद्विग्ना ये पक्षिणस्तैर्निर्गताः परित्यक्तास्तरवो यस्मिन् ।
संमदा हर्षरहिताः श्वापदा मृगादयो यस्मिन्स: । 'प्रमोदामोदसमदाः' इत्यमरः ॥ १७॥
तत्रैव सुमित्रा लक्ष्मणम्प्रति-
४८
 
रामं दशरथं विद्धि मां विद्धि जनकात्मजाम् ।
अयोध्यामटवीं विद्धि गच्छ पुत्र यथासुखम् ॥ १८ ॥
तत्रैव सुमित्रा लक्ष्मणं प्रति - राममिति । यथासुखमिति रामस्य यथा सुखं स्यात्त-
चैव गच्छ । अनुसरेत्यर्थः ॥ १८ ॥
 
पदकमलरजोभिर्मुक्तपाषाणदेहा-
मलभत यदहल्यां गौतमो धर्मपत्नीम् ।
त्वयि चरति विशीर्णयावविन्ध्याद्रिपादे
 
ww
 
कति कति भवितारस्तापसा दारवन्तः ॥ १९ ॥
पदेति । अथ भरते निवृत्ते रामेऽप्यन्यतः कृतप्रयाणे आह स्म जानकी राम
प्रति- विशीणीः सर्वतः प्रक्षिप्ता ग्रावाणो यस्मिन्स चासौ विन्ध्यान्द्रिपादश्च तस्मि-
स्त्वयि चरति सति कतिकति तापसा दारवन्तो भवितार इति । एतत्कुत इत्यपेक्षा-
यामाह-यतो · गौतमशापाच्छिलारूपामहल्यां तव पदकमलरजोभिर्मुक्तस्त्यक्तः
पापाणदेहो यया तामलभत इत्युक्तं भवति । त्वच्चरणस्पर्शेन यथा पूर्वमहल्या
पाषाणरूपापि देवीत्वं गता तथाद्यापि विन्ध्यप्रावाणस्त्रियो भविष्यन्तीति पूर्ववृत्त-
मनुस्मृत्योक्तम् ॥ १९ ॥