This page has not been fully proofread.

३.]
 
दीपिकाख्यव्याख्योपेतम् ।
 
अरुणदलनलिन्या स्निग्धपादारविन्दा
कठिनतनुधरण्यां यात्यकस्मात्स्खलन्ती ।
अवनि तव सुतेयं पादविन्यासदेशे
 
त्यज निज कठिनत्वं जानकी यात्यरण्यम् ॥ १४ ॥
 
रामः वारितामपि कृतप्रयाणां सीतां दृष्ट्वा धरणीं प्रार्थयते अरुणेति । भो अवनि
अमे, इयं सीता अकस्मान्मन्दमन्दं यथा स्यात्तथा कठिना तनुर्यस्या एवंभूताया
धरण्याः सकाशात्स्खलन्ती राती याति । कुत इत्यपेक्षायामाह- अरुणदला चेयं
नलिनी च तद्वत् आ समन्तात्स्निग्धे पादारविन्दे यस्याः सा । अतोऽस्याः पद्-
विन्यासदेशे निजकठिनत्वं त्यज । कस्मात्त्यजामीति चेत्तत्राह
तव सुता । एतेन
वात्सल्यमुदीरितम् । जानकी वनं याति । यद्वा कीदृश्या धरण्या: अरुणदलनलिन्या
अरुणा ये दलाः पादांगुलयस्तेषां नलिनी दुःखदेत्यर्थः । ' नलो स्त्री नालदुःखयोः
इति चरकः । नलं दुःखमस्या अस्तीति नलिनी मैथिली ॥ १४ ॥
 
www
 
पथि पथिकवधूभिः सादरं पृच्छयमाना
कुवलयदलनीलः कोऽयमार्ये तवेति ।
स्मितविकसितगण्डं वीडवित्रान्तनेत्रं
 
मुखमवनमयन्ती स्पष्टमाचष्ट सीता ॥ १५ ॥
पथिकवधूभिः पान्थस्त्रीभिः । यद्वा पथिपथ मार्गेमार्गे कवधूभिः ग्रामीगस्त्रोभिः
' कोस्त्री गाम्यप्रकाशयोः' इति धनञ्जयः । स्मितेन विकसितौ गण्डौ यस्मिन
ब्रीडया विभ्रान्ते नेत्रे यरिंमस्तन्मुखमवनमयन्ती । एतेन स्पष्टं मद्रमणोऽयमित्युक्त-
बती न तु गिरेति ॥ १५ ॥
 
घुसृणमसृणपादा गम्मते भूः सदर्भा
विरचय शिवजातं मूर्ध्नि धर्मः कठोरः ।
इति ह जनकपुत्री लोचनैरथुगर्भैः
पथि पथिकवधूभिर्वीक्षिता शिक्षिता च ॥ १६ ॥
मार्गे पथिकवधूभिरश्रुगर्भेर्लोचनैः कृत्वा जानकी वीक्षिता,
इति शिक्षिता च । इति किं ? भो सीते, त्वं घुसृणमसृणपादा कमलकोशनवनीत-
घुति ।
 
१ काव्यप्रकाशधृतपाठस्तु 'शिक्षिता वीक्षिता' चेत्यस्ति ।