This page has not been fully proofread.

*
 
३.]
 
दीपिकाख्यव्याख्योपेतम् ।
 
४५
 
भरतस्य राज्यारुचिश्च राज्याकरणम् । कीदृशस्य भरतस्य । जनके दशरथे
बान्धवे मयि वत्सलस्य प्रेमवतः । यद्वा जनको विदेहस्तद्वान्धवस्य तद्भातुः प्रेष्ठत्य
जामातृत्वान्ममानुजस्येति । अन्यत्सुगमम् ॥ ६ ॥
 
श्रुत्वा सुमन्त्रवचनेन सुतप्रयाणं
शापस्य तस्य च विचिन्त्य विपाकवेलाम् ।
हा राघवेति सक्कदुच्चरितं नृपेण..
 
निश्वस्य दीर्घतरमुच्छ्रसितं न भूयः ॥ ७ ॥
 
श्रुत्वेति । नृपेण दशरथेन सुमन्त्रो मन्त्री तद्वचनेन सुतानां रामलक्ष्मणभरता-
दीनाम् । हा राघव रामराम इति एकवारमुञ्चरिते सति दीर्घतरं निःश्वस्य भयो
नोच्छूसितम् । देहं त्यक्तुमिति भावः ॥ ७ ॥
 
मातस्तातः व यातः सुरपतिभुवनं हा कुतः पुत्रशोका-
त्कोऽसौ पुत्रश्चतुर्णां त्वमवरजतया यस्य जातः किमस्य ।
प्राप्तोऽसौ काननान्तं किमिति नृपगिरा किं तथासौ बभाषे
मदाग्बद्धः फलं ते किमिह तव धराधीशता हा हतोऽस्मि ॥ ८ ॥
भरतः महतीं मूर्छामासाद्य वैक्लव्यं नाटयति मातरिति । उक्तिप्रत्युक्त्यात्रार्थो-
द्घाटनम् । अन्यत्सुगमम् । इति पुनर्मूर्छितो भुवि पपात ॥ ८ ॥
 
गुरोगिरा राज्यमपास्य तूर्ण वनं जगामाथ रघुवीरः ।-
निषंगपृष्ठः शरचापहस्तस्तं लक्ष्मणो गामिव बालवत्सः ॥ ९ ॥
गुरोरिति । शरयुक्तश्चापो हस्ते यस्य । मध्यमपदलोपी समासः । अन्यार्थेऽ-
शब्दः । स कः । लक्ष्मणस्तं राघवमनुजगाम बालवत्सो गामिवेति ॥ ९ ॥
 
गुर्वाज्ञापरिपालनाय च वनं संप्रस्थितं राघवं
सौ त्वरिता विदेहतनया श्वश्रूजनं पृच्छति ।
नत्वा कोसलकन्यकांधियुगलं पश्चात्सुमित्रां पुन-
ईष्टा हा शुकसारिका पिककुलं रामानुगा प्रस्थिता ॥ १० ॥