2023-03-19 23:53:12 by ambuda-bot
This page has not been fully proofread.
हनुमन्नाटकं -
[- अङ्कः-
रामभरतौ स्वं स्वं कालमधिगम्य हर्षशोकौ नाटयन्तौ गुरो-
गिरा जटावल्कलच्छत्रचामरधारिणौ वनप्रस्थानराज्याभि-
षेकारम्भाय राजानं दशरथं नमस्कर्त्तमवतरतः ।
४४
तत्र भरतः -
हा तात मातरहह ज्वलितानलो मां
कामं दहत्वशनिशैलकपाणबाणः ।
मन्थन्तु तान्विसहते भरतः सलीलं
हा रामचन्द्रपदयोर्न पुनर्वियोगम् ॥ ५ ॥
-
रामभरताविति । अत्र प्रसिद्धशव्दार्थकथने रामायणविरोधः स्यात् । अस्याप्यनि-
मश्लोकैश्च तत एवं व्याख्यायते- अत्र राज्ञोक्तं राज्यभ्रष्टो रामो वनं यातु, अराज्याहों
भरतो राज्यं गृह्णातु, तदा भरतोऽपि राज्यं परित्यज्य रामानुगमनायोद्यतोऽभूदिति
पठ्यते । अन्यथा भरताधर्म: स्यात् । रामभरतौ राजानं नमस्कर्तुमवतरत इत्यन्वयः ।
कीदृशौ । स्वस्वं समयं वनगमनराज्यग्रहणरूपमधिगम्य हर्षशोकौ । वनगमनात् रामो
हर्षे, राज्यश्रवणान् भरतः शोकं, इति नाटयन्तौ । नाटकमेवाह - गुरोर्दशरथस्य
गिरा जटाश्च वल्कलानि च तान्येव छत्रचामराणि च तद्धारिणौ । कस्मै । वनप्रस्था-
नमेव राज्याभिषेकस्तस्मै । एतदर्थेन नृपे सत्यत्वमायाति, भरतेऽपि धार्मिकत्वं,
नृपेण रामे भरतेऽपि राज्यं प्रतिज्ञातम् एकतरादानेऽनृतमेव । तस्मादुभाभ्यां वनमेव
राज्यं मतम् । भरतो जटाधरः सन्रामाज्ञया राज्यं चकारेति कैकेय्यापि वरदान -
त्सत्यत्वमेव । तत्र भरतः अशनिर्वत्रं, शला गिरयः, कृपाण: खङ्गः, बाणः शर: ते
च ते तानि वज्रादीनीति सुगमम् ॥ ५ ॥
मां बाधते नहि तथा गहनेषु वासो
राज्यारुचिर्जनकबान्धववत्सलस्य ।
रामानुजस्य भरतस्य यथा प्रियायाः
पादारविन्दगमनक्षतिरुत्पलाक्ष्याः ॥ ६ ॥