2023-03-19 23:53:12 by ambuda-bot
This page has not been fully proofread.
A
३..]
दीपिकाख्यव्याख्योपेतम् ।
प्रकाशं ) राजन्नमङ्गलीरियं वधूर्यतोऽस्या आगमनमात्रेण
महोत्पाताः सम्भवन्तीति ।
४३
तानुत्पातानवेक्ष्य क्षितिपमथ दशस्यन्दनं ऋन्दयन्ती
लोकाञ् शोकानलौघैः शिव शिव तरसा भस्मसात्कुर्वतीव ।
कैकेयी वाचमूचे निखिलनिजकुलाङ्गारमूर्त्तिः ससीतः
शान्त्यै पुत्रस्य राज्यं भवतु वनमभिप्रेष्यतामेष रामः ॥ ३ ॥
>
तानिति । दशस्यन्दनं दशरथं ऋन्दयन्ती शोषयन्ती । शिवशिवेति खेदे । एष
रामः शान्त्यैः उत्पातजन्यदोषोपशमाय वनमभिप्रेष्यताम् । पुत्रस्य मम सुतस्य
भरतस्य राज्यं भवतु इति वाचमूचे ॥ ३ ॥
दशरथः सकरुणस्त्रीवचनस्वीकरणं मरणोत्साहं नाट्य महतीं
मूर्च्छामासाद्य धरणीतलमुपगतः कथमपि चेतनामुपलभ्य -
रामं कामाग्रजमिव वनं प्रस्थितं वीक्ष्य शक्तो
धर्त्त प्राणाञ् शिवशिव कथं तान्विहायाथ वाहम् ।.
निर्मुक्त: स्यां वचनमनृतं तत्पुनर्नान्यथा मे
भूयाद्भूयस्तदनु वचनं हा बभाषे तथेति ॥ ४ ॥
राममिति । अथवा प्राणधारणाक्षमश्वेत्तान्त्राणानपि विहाय अनृतप्रतिनिर्मुक्त:
स्यां, तदेव वचनम् अन्यथा मा भूत् । तदनु इति विचारानन्तरं, हा कष्टं ! तथेति
यथा त्वं वदसि तथैवास्तु इति तां कैकेयीं बभाषे । अत्र राज्ञेति चिन्तितं चेत्कैके-
य्युक्तं करोमि तर्हि रामादर्शनेन मरणमानुयां न चेदनृतं स्यात्तहीनृतं मा स्थान् ।
मरणमेवास्तु इति भावः । अत्रेयं कथा-देवासुरयुद्धे देवपक्षे स्थितो राजा मूर्च्छितः ।
तेनैव सहेयं तत्र गता कैकेयी रात्रावेनं भक्षयद्वयो राक्षसेभ्यो योगवलेनारक्षत् ।
तदा प्रबुद्धेन राज्ञा वरद्वयमस्यै दत्तम्, तत्तया राज्ञि विन्यस्तं यथेच्छं ग्रहीप्यामीति ।
तद्वरादानादनृतः स्यामिति प्रसिद्धम् ॥ ४ ॥
1