This page has not been fully proofread.

[ अङ्क:-
weng
 
४२
 
हनुमन्नाटकं
 
अथ रामवनलीलां वर्णयितुमकमारभते-भुक्त्वेति । राघवो रामो धर्मर्पन्या
सार्धं कतिपयसमयं यथा स्यात्तथा सुरङ्गान्भोगान्कामविलासानष्टौ भोगान्भुक्त्वा
श्रवणमुनिपितुर्यज्ञदत्ताख्यवैश्य तपस्विनः शापसमयं प्राप । अत्रेयं कथा - मृगयां
गतो दशरथो वनगजभ्रमेण शब्दवेधित्वपरिचयाय, कुम्भं जलेन पूरयन्तं श्रवणमुनि-
मव जधान । ततोऽस्य पित्रा यज्ञदत्तेन शप्तः, अस्यामेवावस्थायां पुत्रशोकात्पर.
लोकं गमध्यसीति तं वियोगसमयं प्राप । यद्वा राघव एप दशरथो धर्मपल्या
साधे वर्धिष्णुका मोऽपूर्णकामाभिलाप इति उभयोर्विशेषणम् । भोगानष्टौ । उक्तं
च' सुगन्धि वनिता वस्त्रं गीतं ताम्बूलभोजने । वाहनं भूषणं चेति भोगाष्टक
मुदीरितम् । शापकालमेव द्योतयति-तस्सिन्समये धत्ते व्यधत्त । भूतायें त
मानता नाटकालंकृतित्वान् । उक्तं च दशरूपके- 'प्रकृतं वर्तमानत्त्रं नाटकालंकृतिः
परा : इति ॥ १ ॥
 

 
दिग्भागो धूसरोऽभूदहनि बहुतरस्फारताराः स्फुरन्ति
स्वर्भानोर्मानवीयं ग्रहणमसमये रौधिरी बिन्दुवृष्टिः ।
मध्याह्नोर्ध्वास्य कोशश्चगणरुतम तिस्फीत फेरुप्रचारो
वारंवारं गभीरप्रलय इव महाकालचीत्कारघोरः ॥ २ ॥
 
दिगिति । अहनि द्विवैव स्फारो विस्तारः स्वर्भानो राहोः सकाशान्मध्याह्ने ऊर्ध्व
मास्यकोशो येषां ते श्वगणाः सारमेयगणास्तेषां रुतमभूत् । स्फीतो बहुतर: फेरूणां
शिवानां प्रचार इतस्ततः सरणं वारंवारमभून् । क इव गभीरप्रलय इव । कीदृशः
महाकालो रुद्रस्तस्य चीत्कारेण घोरः । ( कलिकातामहानाटके द्वितीयतृतीय-
लोक्योर्मध्ये । 'अत्रान्तरे दशरथस्य चेष्टा-रामे नयचयं दृष्ट्वा लोकधर्मसहं च यत् ।
यौवराज्याभिषेकाय नृपे मतिरभूत्ततः । सुमन्त्रो वहिनिःसृत्य नागरान्प्रति स्वीयां
जरामुपगतामवलोक्य राजा रामं च राज्यवहनक्षममाकलय्य । राज्याभिषेकपरमो-
त्सवमस्य कर्तुं व्यादिष्टवान् पुरजनाः कुरुत प्रमोदम् । रामाभिषेके पदचिह्नलाया:
कक्षच्युतो हेमघटस्तरुण्या: । सोपानमारुह्य चकार शब्द ठंठठठठठठठठठठ: ' एत.
त्पद्यत्रयम् ) । प्रलये रुद्रवीत्कारं करोति इति प्रसिद्धम् । स्फीतकेतुप्रचार इति वा
. पाठे स्पष्टार्थः । एकोत्तरशतं केतवः सन्ति ॥ २ ॥
 
कैकेयी - ( आत्मगतम्)
 
प्राप्तः किल महाग्बन्धकालस्तहि द्रुतं राजानं भरतराज्यं
प्रार्थयामि न खलु कालक्षेपः श्रेयसे ( रहसि उपग्रम्य