This page has not been fully proofread.

}
 
दीपिकारव्यव्याख्योपेतम् ।
 
आगामिदीर्घविरहश्विरमाविरासी-
ज्ज्ञात्वैव रङ्गभवनेद्भुतकामकेलिः ।
श्रुत्वा तयोर्गिरमपूजयदोतुपत्नी-
मुद्गीर्णकर्णसरणां चरणायुधानाम् ॥ ३० ॥
 
इति श्रीहनुम नाटके रामजानकी विलासो नाम द्वितीयोऽङ्कः ॥ २ ॥
 
४१
 
अगामीति । रङ्गभवने सुरतागारे चिरं कोऽपि भ्रम आविरासीत् । कयोः ।
तयोः सीतारामयोः । ' भ्रमेऽपि चिरमव्ययम्' इति चरकः । किं कृत्वैव । आगामी
भविष्यो यो दीर्घविरहो दण्डकारण्यप्रस्थानरूपस्तं ज्ञात्वैव । कीदृशी सीता । अद्भुता:
कामकेलयो यस्याः सा । अस्य रसस्यादौ तुरगांस्ताडयामासेति भ्रम उक्तः । प्रान्ते
विडालपत्नीपूजनमेव भ्रमः, अतः आद्यन्तभ्रमादिनिष्ठमेव जातम् । यद्वा । स्पष्टमेव-
मर्थः । रङ्गभवने अद्भुतकामकेलि : कामक्रीडा चिरमाविरासीन् । अन्यत्पूर्ववत् ।
अन्यत्कविनैव व्याख्यातम् । भ्रममेवाविष्करोति चरणायुधानामिति । तयोः
जानकीरामचन्द्रयोर्मध्ये जानकी चरणायुधानां गिरं श्रुत्वा विडालपत्नीमपूजयत् । अत्र
विडालपत्नीशब्दाद्विडालपूजने पतिव्रतायाः परपुरुपस्पर्शो मा भूदिति सूचितम् ।
किमित्यपूजयत् । एवमुक्तं भवति । वालायाश्चेतसि चरणायुधशव्देनैव प्रातरुत्पद्यते
नेतरथा । अतः पूजिता बिडालपत्नी पूर्ववैरमनुस्मरन्ती चरणायुधमन्यप्रमश्नातु ।
तस्मिन्निवृत्ते प्रातःकालासंभवादनन्ता भवतु यामिनी, कामिनी पतिमालिङ्ग चाजस्रं
सुखमनुभवत्वित्यभिप्रेतोऽर्थः ॥ ३० ॥
 
इति श्री मिश्रदासविरचितहनुमन्नाटकदीपिकायां जानकी-
विलासो नाम द्वितीयोऽङ्कः ॥ २ ॥
 
gram
 
तृतीयोऽङ्कः ।
 
भुक्त्वा भोगान्सुरंगान्कतिपयसमयं राघवो धर्मपत्न्या
सार्धं वर्धिष्णुकामः श्रवणमुनिपितुः प्राप हा ! शापकालम् ।
धत्ते तस्मिन्विवस्वान्मलिनकिरणतां हा महोत्पातहेतो-
रुल्कादंण्डः प्रचण्डः प्रपतति नभसः कम्पते भूतधात्री ॥ १ ॥