2023-03-19 23:53:04 by ambuda-bot
This page has not been fully proofread.
॥ श्रीगणेशाय नमः ॥
श्रीमद्धनुमता विरचितं
हनुमन्नाटकम् ।
दीपिकाख्यसंस्कृतटीकासमेतम् ।
प्रथमोऽङ्कः ।
कल्याणानां निधानं कलिमलमथनं पावनं पावनानां
पाथेयं यन्मुमुक्षोः सपदि परपदप्राप्तये अस्थितस्य ।
विश्रामस्थानमेकं कविवरवचसां जीवनं सज्जनानां
बीजं धर्मद्रुमस्य प्रभवतु भवतां भूतये रामनाम ॥ १ ॥
हृदये यत्प्रेरणया समुद्यतोऽहं विमूढतबुद्धिः ।
तत्पदकमलं वन्दे गोकुलनाथस्य वेदाः ॥ १ ॥
हनुमन्नाटकसागर शब्दार्थांगाधतां सुबोधत्वम् ।
नेतुं कृतसाहसतां मम सुधियः क्षन्तुमर्हन्तु ॥ २ ॥
तावच्छ्रीरामचन्द्रगुणचक्रवालवर्णनेच्छुः कविः स्वाभीष्टदेवतानामान्तरिताशीं:-
नान्दीमवतारयति कल्याणानामित्यादिद्वादशपदैः । तदुक्तं नाटकावतारे-
' अष्टाभिर्दशभिर्वापि नान्दी द्वादशभिः पदैः । आशीर्नमस्क्रिया वस्तुनिर्देशो वापि
तन्मुखम्॥' इति । नान्दी मङ्गलवचनमिति । अत्र संक्षेपतोऽर्थोद्घाटनं क्रियते विस्त-
रस्य श्रद्धाविच्छेदकत्वात् । रामनाम भवतां भूतये प्रभवतु इत्यन्वयः । भूतये
ऐहिकपारलौकिकैश्वर्याय मोक्षाय वा 'भूतिरैश्वर्यमोक्षयो: ' इति चरकः । मेल-
'कोपमालंकारः । उक्तं च वीरभानौ-' विशेषणार्थनिर्भर्ता यद्यनेकार्थभाक्पदः ।
चाक्यवादिविहीनोऽपि मेलकः सम्मतो बुधैः ॥ ' इति । तत्र विशेपणैस्तद्रूपप्रदत्वं
पूर्वी