2023-03-19 23:53:11 by ambuda-bot
This page has not been fully proofread.
४०
हनुमन्नाटकं -
रामः ( सानन्दम्)
सीतां मनोहरतरां गिरमुद्रिरन्ती-
मालिङ्गय तत्र बुभुजे परिपूर्णकामः ।
रामस्तथा त्रिभुवनेऽपि यथा न कोऽपि
रामां भुनक्ति बुभुजे न च भोक्ष्यतीशः ॥ २८ ॥
1
[ अङ्कः-
सीतामिति । मनोहरतरां गिरमुद्गिरन्तीं सीतां परिपूर्ण: कामः कामकलाविलासो
न्यत्र । अन्यथेश्वरत्वस्य क्षतिः स्यात् । रामः सीतां तथा बुभुजे । यथा कोऽपीश्वरो
भूत्वा नाद्य मुनक्ति, न पुरा बुभुजे, नाग्रे भोक्ष्यतीति ॥ २८ ॥
मृदुसुरभिसुवर्णस्फीतकक्षापुटोय-
ढलितभुजलतायाः संपुटालिङ्गितायाः ।
सुरतरसवशाया राघवस्थ प्रियाया
हरति हृदयतापं कापि दिव्या स्तनश्रीः ॥ २९ ॥
अथैतद्वर्णनमुपसंहरति-मृद्विति । प्रियायाः काप्यनिर्वचनीया दिव्या अलौकिकी
स्तनश्री:, राघवस्य हृदयतापं हृत् अयतीति हृदयः कामस्तस्य तापं व्यथां हरतीति
कीदृशी।मृदुः स्पर्शासहः सुरभिः सुगन्धः सुवर्णो गौरोज्ज्वलः स्फीतः किंचिदुन्नतः स
चासौ कक्षापुटश्च तस्मादुद्यते ललिते भुजलते यस्याःसा तथा कक्षापुटोद्यदिति पाठे
स एवार्थः । एवं भूतात्कक्षापुटादुद्यते उपरि भुजमूले यस्याः। हरतु इति पाठःतत्राशीः ।
पुनः कीदृश्याः ।संपुटालिङ्गिताया: संपुटाख्यालिङ्गनेनालिङ्गिताया: । उक्तं च पञ्च-.
सायके-' ऊर्ध्व गते मध्यगते युवत्याः पार्श्वस्थितायाः परिरभ्य देहम् । यूनः स्त्रियो
लोलनतो रतज्ञैरत्युद्भवः संपुटनामधेयः ॥' अयमेवोदयः तेनान्यथोक्त:--' उत्तान-
सुप्तप्रमदोपरिस्थ: कक्ष्यां समावर्जत ऊरुयुग्मम् । संमर्दयानस्तनमण्डलं यद्रमेत सः
म्यात्किल संपुढाख्यः' इति ॥ २९ ॥