2023-03-19 23:53:11 by ambuda-bot
This page has not been fully proofread.
}
२. ]
दीपिकाख्यव्याख्योपेतम् ।
स्वर्ण सुवर्ण दहने स्वदेहं चिक्षेप कान्ति तव दन्तपंक्तिम् ।
विलोक्य पूर्ण मणिवीजपूर्ण फलं विदीर्ण ननु दाडिमस्या ॥ २५॥
स्वर्णमिति । सुष्टु वर्णो यस्य एवंभूतमपि स्वर्ण सुवर्ण तव कान्ति विलोक्यात्म-
गतमलापकर्षणाय त्त्रदङ्गस्य साम्यत्वकथनाय च स्वदेहं दहने चिक्षेप । न तु तद्वर्ण-
प्राप्तवदिति भावः । हीरकमणितुल्यवीजपूर्णमपि दाडिमस्य फलं तव दन्तपङ्क्तिं
विलोक्य तूर्णमेव विदीर्ण स्फुटितम् । तदुपमानवहिष्कृतत्वादिति भावः ॥ २५॥
वदनममृतरश्मि पश्य कान्ते तवोर्व्या-
मनिलतुलनदण्डेनास्य वार्धी विधाता।
स्थितमतुलयदिन्दुः खेचरोऽभूल्लघुत्वा-
त्क्षिपति च परिपूर्त्यै तस्य तारा किमेताः ॥ २६ ॥
वदनमिति । हे कान्ते प्रिये, पश्य । मुखगौरवं प्रत्यक्षमवलोक्य विधाता उर्व्यां
भूमौ स्थितं तव वदनं वार्धी क्षीरसमुद्रे स्थितशीतरश्मि गुणसाम्या तिरेकज्ञापनाय:
अनिल एव तुलादण्डस्ते नातुलंयत्तोलयामास । तदेन्दुः लघुत्वादल्पगुणाश्रितत्वात्खे--
चर उन्नतोऽभूत् । तदास्य चन्द्रस्य पूर्त्यै एतास्तारा अश्विन्याद्याः क्षिपति स्म ॥
तस्य चन्द्रस्य पूत्यें यातास्ताराः किं कियन्त्यः । न कियन्त्य इत्यर्थः । गुणगौरवा-
त्तव वदनमत्रैव स्थितं चन्द्रस्तु गुणाभावादूर्ध्व गत इति भावः ॥ २६ ॥
जानकी - सानन्दं सोत्कंठा चप्राणवहभमाहादयन्ती -
रमणचरणयुग्मं तावकं भावयित्वा
मधुरगिरमुदारं रामदासी ब्रवीमि ।
कृतमपि गुरु धात्राऽऽस्वाय निर्णीयतां मे ।
वदनममृतरश्मेर्मण्डलं वा प्रियेण ॥ २७ ॥
ननु सिताखण्डश्चेदल्पतरः, गुड़ो बहुतरः ताई किं गौरवादेव गुणाधिक्यमित्य-
पेक्षायामाह - रमणेति । भावयित्वा निपेव्य, धात्रा गुरुकृतमपि मे वदनं तथापि
प्रियेण त्वया आस्वाद्य अमृतर मेरपि मण्डलं वा निर्णीयताम् । यत्रैव स्वादाति--
शयस्तत्रैव गौरव मिति भावः ॥ २७ ॥