This page has not been fully proofread.

[ अङ्कः-
३८
 
हनुमन्नाटकं -
 
ये उदारः संप्रमादवान् संचारस्तद्रागव्यञ्जकं तन्त्रीगमनं तेन चश्चन्ती सशब्दा
या तन्त्री वीणा ततः संजातो यो मंजुस्वरः कोमलालापस्ततोऽपि सरसतरोऽतिश-
येन रसवान्य उद्गाराख्यं गीतं तस्मिन् ताराणि व्यक्तान्यक्षराणि यस्मिंस्तत् ।
तदुक्तं संगीते - 'सात्वती पञ्चमश्रीकप्रीतिमण्ठविराजितम् । त्रिपदं सध्रुवं गीतमु-
द्वाराख्यं मतं बुधैः' इति । पुन: प्रत्यमं नवीनमुन्निद्रं विकसितं च तन्नाकद्रुमकुसुमं
पारिजातपुष्पं तस्य यो नवामोदस्तात्कालिको ग्रन्धः स एव या संवादमैत्रीवचन-
चातुरी तस्याः पात्रीभूतेन । पारिजातकुसुमादप्यतिसुगन्धेनेत्यर्थः ॥ २२ ॥
अथ रामस्तामाह्लादयति-
अरण्यं सारङ्गैर्गिरिकुहरगर्भाश्व हरिभि -
र्दिशो दिङ्मातङ्गैः श्रितमपि वनं पंकजवनैः ।
प्रिया चक्षुर्मध्यस्तनवदन सौन्दर्यविजितैः
 
सतां माने म्लाने मरणमथवा दूरसरणम् ॥ २३ ॥
 
अरण्यामति । सारङ्गैर्मृगैर्हरिभिः सिंहः, मातङ्गैः गजैः, पङ्कजवनैः पद्मव्रातः,
वनं जलं 'जीवनं भुवनं बनम्' इत्यमरः । कीदृशैः सर्वैः । प्रियायास्तव चक्षुः सौ-
न्दर्येण मृगाः, मध्यप्रदेशसौन्दर्येण कमलवनं च विजितमिति मृगादिभिररण्यादि-
श्रयणं युक्तमित्याह - सतां संभावितानां माने चित्तोन्नतौ म्लाने सति केनापि दूषिते
सति मरणं मुख्यं तदभावे दूरसरणं देशान्तरदुर्गाश्रयणं याग्यम् । अत एभिदुर्गमे-
वाश्रितमिति भावः । आये प्रिये, अयीति कोमलामन्त्रणे । अपि वा तत्र संभावना ।
'गर्हासमुच्चयप्रश्नशङ्कासंभावनास्वपि' इत्यमरः ॥ २३ ॥
 
वक्रं बनान्ते सरसीरुहाणि भृङ्गाक्षमालां जगृहुर्जपाय ।
एणीदृशस्तेऽव्यवलोक्य वेणीमङ्गं भुजङ्गाधिपतिर्जुगोप ॥ २४ ॥
वक्रमिति । सरसीरुहाणि पद्मानि एणीहशस्ते वकं विलोक्य, तत्सौन्दर्यार्थ
बनान्ते जलमध्ये जपायेष्टाराधनाय भृङ्गश्रेण्येवाक्षमाला तां जगृहु: । एणीदृश इति
पदेन मृग्योऽपि वनान्ते अरण्ये मध्ये तृणादिभक्षणादिना नेत्रशोभाप्राप्त्यर्थं तपस्य-
न्तीत्यर्थः । भुजङ्गाधिपतिरपि ते वेणीमवलोक्य तत्सादृश्यहीनमङ्गं जुगोप । अन्यथा
स्वशरीरगोपनेन को लाभ इति । यद्वा एणीदृशः इति पदद्वयं, एणी मृगी । जात्ये-
कवचनम् । ते दृश: दृष्टी:, अवलोकनवैदग्ध्यानेकत्वाद्बहुवचनम् । अवलोक्य,
वनान्ते अरण्यदुर्गे नेत्ररूपं अङ्गं जुगोप । त्वन्नेत्रसादृश्यभाववैलक्षण्यत्वात् ॥ २४ ॥