This page has not been fully proofread.

हनुमन्नाटकं -
 
श्रीरामपादाः-
निद्रालुस्त्रीनितम्बाम्बरहरणरणन्मेखलारावधाव-
त्कंदर्पारब्धबाणव्यतिकरतरलाः कामिनो यामिनीषु ।
ताटकोपान्तकान्तयथितमणिगणोद्गच्छदच्छप्रभाभि-
र्व्यक्ताङ्गास्तुङ्गकम्पा जघनगिरिदरीमाश्रयन्ते अयन्ते ॥ १९ ॥
अथ भयलोलालिङ्गनं द्योतयितुं पद्यमवतारयति-निद्रेति । ते प्रसिद्धा: संकामा:
श्रीरामपादा जघनमेव गिरिदरी सेवाश्रयं निलयस्थानं श्रयन्ते इति । कुत इत्यपे-
क्षायामाह-निद्रा जाता यस्या एवंभूता स्त्री सीता तस्या नितम्बवस्त्राकर्पणे सति
रणन्ती शब्दिता या मेखला तस्या रावेण धावन्यः कंदर्पस्तेनारब्धः संवितो यो
बाणस्तेन यो व्यतिकरो भयं तेन तरला आत्मानं गोपायितुं चञ्चला। अन्योऽपि
चौर्य कुर्वन्केनापि ज्ञात अलं पलायितुमात्मानं गोपायति तथानापि कामचौर्यम् ।
अन्यस्मिन्नन्यावभासो व्यतिकरः । अत्र निर्भयत्वेन भयं तर्हि निलीय तिष्ठन्तु इति
चेत्तनाह । ताटङ्क्योरुपान्तेपु ग्रथिता ये मणिगणा रत्नसमूहास्तेभ्य उद्गच्छंत्यो या
उज्ज्वला: प्रभा दीप्तयस्ताभिव्यक्ताङ्गाः प्रकटीकृतशरीरा अत एव ज्ञातेपु सत्सु तुङ्गः
कम्पो येषां ते एवंभूताः सन्तः आश्रयन्ते । उक्तं च कामावतारे - ' निर्निद्रिता मृग-
दृशो रसनां यदैव संमोचनाय विभयीकृतमानसोलम् । तद्भावकम्पमुखतो जघने
निलीयमास्थाय तिष्ठति तदा भयलोलमुक्तम्' इति ॥ १९ ॥
 
जानकी प्रबुद्धा-
स्पृहयति च बिभेति प्रेमतो बालभावा-
न्मिलति सुरतसङ्गेऽप्यङ्गमाकुञ्चयन्ती ।
अहह नहि नहीति व्याजमप्यालपन्ती
स्मितमधुरकटाक्षैर्भावमाविष्करोति ॥ २० ॥
 
स्पृहयतीति । भावं मानसं रागम् अन्यत्स्पष्टमेव । प्रेमतः सङ्गं स्पृहयति. बाल-
भावाद्विभेतीति योज्यम् ॥ २० ॥
 
३६
 
PA
 
निधुवनघन के लिग्लानिभावं भजन्त्या
रमणरभसशंकातंकिचेतः प्रियायाः ।
 
[ अङ्क:-