This page has not been fully proofread.

२. ]
 
दीपिकाख्यव्याख्योपेतम् ।
 
३५
 
मदनेति । कामाग्रिना शुष्ययो रमणीयः रामस्य सीतायाः कुचान्तः स्तनमध्य-
देशस्तक्के हृदि यो मलयज पन्तस्मिन्निमग्नोऽलिर्भ्रमरो लक्ष्यते । उत्प्रेक्षते-की-
दृशः । गाढं यथा स्यात्तथा वढा अखिला अंध्रयो यस्य अत एव उपरि विततौ
पक्षौ यस्य उडीनासम्भवान् । क एव लक्ष्यते । एप कुसुमेपोः शर इव पुड्समात्रा-
वशिष्टः । अन्यन् हृदय इति ॥ १६ ॥
 
तत्रावसरे-
पृथुलजघनभारं मन्दमान्दोलयन्ती
 
मृदुचलदलकामा प्रस्फुरत्कर्णपूरा ।
प्रकटितभुजमूला दर्शितस्तन्यलीला
प्रमद्रयति पतिं द्राग्जानकी व्याजनिद्रा ॥
 
-
 
द्राकू ईपद्वयाजेन भावाविष्करणदम्भेनाश्रिता निद्रायया सा अन्यथा वैज्ञात्य-
मायाति । जानकी पनि प्रमयति प्रकृष्टुं हर्पयति । हर्षप्रकारमेवाह - मन्दं यथा
स्यात्तथा पृथुलं मांसलं जघनं तस्य यो भारः तं ढोलयन्ती तोलयन्ती । पुनः कीदृशी ।
मुनि स्पर्शाणि च चलान्यलकाप्राणि यस्याः, प्रकटितं भुजमूलं यया, दर्शिता
स्तन्यलीला स्तनयां: परिसरशोभा यया । एतत्पद्येन कुञ्चिताख्यं शयनं
दर्शितम् । तदुक्तं कामावतारे- 'प्रमीला दम्भतो यत्र प्रीतिद्वानदिदित्सया । स्वशोभा
दीयते नेत्रे शयनं तद्विकुश्चितम् ' इति ॥ १७ ॥
 
-
 
१७ ॥
 
तामपि दूरस्थां मन्वानः-
तदनु जनकपुत्रीवक्रमालोक्य रामः
पुनरपि पुनरेवाघ्राय चम्बन्न तृप्तः ।
स्तनतटभुजमूलोरःस्थलं रोमराजि-
मदनसदनमासीच्चुम्बितं पञ्चबाणः ॥ १८ ॥
 
तद्नु व्याजाविष्कृतभावदर्शनानन्तरं रामः जनकपुत्रीवक्रमालोक्य पुनःपुनरा-
ब्राय चुम्चन्नपि तृप्तो न जातः । स्तनतटभुजमूलोरःस्थलं रोमराजि मदनसदनं
चापि रामेण चुम्बितमासीदिति । अत्र द्वन्द्वक्यम् । कीदृशः पञ्चवाणः ।
कामोऽस्यास्तीति तथा सकाम इति । अर्शआदिभ्योऽच् । एतेन पञ्चशराख्यं
चुम्बनं द्योतितम् । तद्युक्तं वात्स्यायनीये - ' भुजमूलं स्तनौ वक्षो वलिं मदनसझ
च । पद्मिनी चुचिता द्रावं याति पञ्चशराभिधम् ' इति ॥ १८ ॥