This page has not been fully proofread.

२. ]
 
दीपिकाख्यव्याख्योपेतम् ।
 
३३
 
गाढंगाढ मिति। मानकीर्णा मा मा स्पृशेत्यादिव्याजववनभाषिणी सीता सदयहृदयं
चानिलस्वागताय वायोरागमनाय आ ईषत् शिथिलं चकार । किं कृत्वा । पुण्डरीकाक्षो
रामस्तद्वक्षःपीठं कमलमुकुलं तत्सदृशकोमलं कुचयोरपि काठिन्यं मत्वा । कीदृशी ।
कामैः कामसंवन्धिभावैः पूर्णा । कामकलाविदग्धा इत्यर्थः । स्वामिना श्रीरामेणापि
गाढंगाढं यथा स्यात्तथा आलिङ्गन्य स्फतिं नीतं स्फीताख्यं चुम्वनं प्रापितम् । तदुक्तं
कामावतारे - 'नकार बहुलक्षिप्तहस्तान्तं वृश्चिताधरम् । रभसा गण्डसंस्पर्शस्फीतं तच्चु --
म्बनं मतम्' इति । कमलकलिफाकोमलं पुण्डरीकाक्षवक्षः कुचकाठिन्येन व्यथितं
मा भूदिति शङ्ख्या बाहुपाशमीपाद्वसृज्य पवनप्रवेशाय हृदयं शिथिलमाच-
कारोति भावः ॥ ११ ॥
 
-
 
जानकीरामचन्द्रयो:-
अन्योन्यं बाहुपाशग्रहणरसभराशीलिनोस्तत्र यूनो-
र्भूयोभूयः प्रभूताभिमतफलभुजोर्नन्दतोर्जात एषः ।
संसारो गर्भसारो नव इव मधुरालापिनोः कामिनोम
गाढं चालिङ्गन्य गाढ़ स्वपिहि नहि नहीति च्युतो बाहुबन्धः १२ ॥
 
अन्योन्यमिति । तत्र संभोगसमये भूयो भूयो नन्दतोर्मुहुर्मुहुर्वर्धमानयोर्यू नोर्जान-
कीरामचन्द्रयोरेप संसारो नव इव जातः । अज्ञानरसप्रदो जात इति भावः । गर्भे
सारः सुखं यस्य सः । कीदृशयोः । परस्परं बाहुपाशग्रहणयो रसभरो रसातिरे-
कस्तमभिव्याप्य शीलितुं शीलं ययोस्तौ तथा । पुनः कीदृशयोः । प्रभूतं बहु अभि-
मतमिष्टफलं कामफलं भुञ्जतोः । यथेच्छानेककलाविदग्धयोरिति पुनरध्याहारः ।
कामिनो: कामरसवर्धनविदग्धयोरिति । वाहुवन्धयुतः शिथिलो जातः । इति किम् ।
रामेणोक्तं मा इति मां गाढमालिङ्गन्य स्वपिहि । सीतयोक्तं नहि नहीति । अत
एव मधुरालापिनोः स्वपिहि नहि नहीत्यादिमाधुर्यम् । श्यामं कामसमाकृतिं राम-
मालिङ्कच उत्कण्ठितापि कामाकुलापि जानकी कुलसंभूतिलज्जया नवसंगमतया
च भर्तृमनोहरणाय नहि नहीति व्याहृत्य दुःसहमपि मारज्वरं सहते स्म ॥ १२॥
 
व ततः फणिलतादलवीटिकां स्वे
विन्यस्य चन्दनघनावृतपूगगर्भाम् ।