This page has not been fully proofread.

३२
 
हनुमन्नाटकं -
 
[ अङ्कः-
विकासे सति निद्राया दरिद्रो यस्माद्यदुदये विकसितत्वात् पुनर्न संकोच इति भावः ।
रतिपतेर्वाणानां निर्वाणस्तीक्ष्णीकरणं तस्य शाण उपलविशेषः । यद्वा निर्वाणो
मोक्षस्तस्य शाण: सहायकृत् । कामवाणनिर्मुक्तौ सत्यां सहायकृति भावः
'निर्वाणस्तीक्ष्णमोक्षयोः ' इति चरकः । 'उत्तेजकोपले शाण: पक्षेप्यात्मगतेः
पुमान् ' इति धरणिः ॥ ९ ॥
 
इत्याकर्ण्य चन्द्रमण्डलशाणे शाणोत्तीर्णो रतिपतेर्बाणो
जानकीरामचन्द्रयोर्वक्षःस्थले निपतति, इति श्लोका-
भिप्रायमवगम्य निष्क्रान्तः सर्व आलिजनः । अत्रापि
तरुणरात्रौ शुकसारिकादीनां पक्षिणां मधुरस्वरैर्मदनोर्मिः
संसूचिता ॥
 
रामः-
अङ्के कृत्वा जनकतनयां द्वारकोटेस्तलान्ता-
त्पर्यङ्काङ्के विपुलपुलकां राघवो नम्रक्राम् ।
बाणान्पञ्च प्रवदति जनः पञ्चबाणोऽप्रमाणै-
र्बाणैः किं मां प्रहरति शनैर्व्याहरन्ती जगाम ॥ १० ॥
 
अथ जानकीरामयोः शृङ्गारं वर्णयति अङ्के वृन्वेति । द्वारकोटेद्वराग्रभागस्य
तलान्ताज्जनकतनयां अङ्के कृत्वा पर्यकाङ्के पर्यकमध्ये निन:यानयत । विपुलपुलकाम्
एतेन मुखस्मितश्निग्धसात्त्विको दर्शितः । उक्तं च रसोदधौ - 'साक्षादीश्वरयोगो
यैस्ते मुख्या मनीपिभिर्ज्ञेया: । इति द्रढिमरतिप्रकारा ये स्युः स्निग्धा नतास्त
एवात्र' इत्यपि । शनैर्मनास उवाच वालायाः प्रभूतरोमाञ्चदर्शनेन पञ्चवाणेप्यप -
 
रिमितवाणभ्रान्तिः ॥ १० ॥
 
गाढंगाढं कमलमुकुलं पुण्डरीकाक्षवक्षः-
पीठं काठिन्यमपि कुचयोजनकी मानकीर्णा ।
पूर्णा कामैः शिथिलमनिलस्यागमायाचकार
 
नीत स्फीतं सदयहृदयं स्वामिनालिङ्गय मत्वा ॥ ११ ॥