This page has not been fully proofread.

२.]
 
दीपिकाख्यव्याख्योपेतम् ।
 
३१
 
कुमुद्वतीवनितया कुमुदिन्य एव चन्द्रकान्ता तया कृतं यद्वैलक्ष्यं लज्जातिरेकस्तेन
पाण्डूकृत: रागान्वितोऽपि पीतत्वमागत इति केनैव हास्येनैव परगामिनमेवं दृष्ट्वा
यत्कुमुदिनीविकसनं तदेव हास: । उक्तं च - 'आत्मनश्चरिते यस्य ज्ञातेऽन्यैर्यत्र
जायते । अपनपेति महती तद्वैलक्ष्यमुदाहृतम् ' इति ॥ ६ ॥
 
,
 
कर्पूरैः किमपूरि किं मलयजैरालेपि किं. पारदै -
 
रक्षालि स्फटिकान्तरैः किमघटि द्यावापृथिव्योर्वपुः ।
एतत्तर्कय कैरवक्लमहरे शृङ्गारदीक्षागुरौ
दिक्कान्तामुकुरे चकोरसुहृदि प्रौढे तुषारविंषि ॥ ७ ॥
 
-
 
रामः सखीं प्रति कर्पूरैरिति । ' द्यावाभूमी च रोदसी' इत्यमरः । अक्षालि
प्रक्षालितं किम् । दिक्पूर्वी सैव कान्ता तस्या मुकुरे तत्तुल्ये । अन्यत्स्पष्टम् ॥७॥
 
अमृतममृतरश्मेर्मण्डलस्यानुभू
द्विजचतुरचकोर प्रीतिरङ्गारकेषु ।
प्रभवति भवदीया चेद्विधातुर्विधानं
 
तदिह पुनरपि स्यात्कोऽन्यथाकर्तुमीशः ॥ ८ ॥
अङ्गारकोरकाशनं चकोरमवलोक्याह-अमृतमिति । भो द्विज चतुरपक्षिविदग्ध-
चकोर, अमृतरश्मेर्मण्डलस्य चन्द्रविम्त्रस्यामृतमनुभूय चेद्भवदीया 'प्रीतिः अङ्गार-
केपु प्रभवति तत्तदा विधातुरीश्वरस्य विधानं पुनरप्यन्यथा कर्तुं कः पुमान् ईश:
स्यात् ? न कोऽपीति भावः ॥ ८ ॥
 
चक्रक्रीडाकृतान्तस्तिमिरचयचमूस्फारसंहारचक्रं
कान्तासंहारसाक्षी गगनसरसि यो राजते राजहंसः ।
सम्भोगारम्भकुम्भः कुमुदवनवधूबोध निद्रादरिद्रो
देवः क्षीरोदजन्मा जयति रतिपतेर्वाणनिर्वाणशाणः ॥ ९ ॥
 
अथ पञ्जरस्था मन्दिरसारिका सखीनां स्वमन्दिरगमनायाशिषं पठति-
चक्रेति । क्षीरसमुद्राज्जन्म प्रादुर्भावो यस्य एवंभूतो देवश्चन्द्रो जयति । तमेव
विशिनष्टि-अन्धकारनिचयसेनायाः स्फारो विस्तारस्तन्नाशाय चक्रम् । आविष्टलि-
ङ्गत्वाखण्डत्वं राजहंस इव । लोपेप्यचू औणादिकः । कुमुदवनवधूनां बोधे