This page has not been fully proofread.

-
 

 
प्रस्तावना ।
 
भङ्गजयान्वितं लयमयं तत्तत्पुराणाश्रयम् । भाषावैभवसुन्दरं प्रविलसन्नानाविलासं वल-
द्वृत्तिव्याप्तमशेपसंधिसहितं सप्ताङ्गवन्नाटकम् ॥ " इति । सङ्गीतदामोदरादी च विस्तर
एतद्विषये भूयानस्ति ग्रन्थगौरवभयान्नेह प्रपच्यते । एतादृशलक्षणैरुपलक्षितान्यन -
राघवाभिज्ञानशाकुन्तलादीनि नाटकानि सुप्रसिद्धानि सन्ति ।
 
30
 
1
 
तत्रेत्थं तावद्विचार्यम्- यदिदं श्रीमद्धनुमन्नाटकं महानाटकं नाम-सुलक्षणकाव्य-
प्रवन्धप्रागल्भ्यसारगर्भितं प्रसरीसति मूर्तिमत्सरस्वतीमयम् । तदेतद्भगवतः श्रीरामचन्द्रस्य
परमभक्तेनं श्रीहनूमता विरचितमिति हि चतुर्दशांकगतश्लोकतोऽवगम्यते - सच यथा-
" रम्यं श्रीरामचन्द्रप्रवलभुजवृहत्ताण्डवं काण्डशौण्डव्याप्तं ब्रह्माण्डमाण्डे रणशिरसि
महानाटकं पाटवाब्धिम् ॥ पुण्यं भक्त्याञ्जनेयप्रविरचितमिदं यः शृणोति प्रसङ्गान्मुक्तो-
ऽसौ सर्वपापादरिभटविजयी रामवत्सङ्गरेषु ॥ " इति । एतच्च महानाटकं हनूमता
विरचितं सर्वतः प्रसरच्छाधं विमृश्य वाल्मीकिना कृतप्रार्थनो हनुमाञ्छिलालिखितं
तत्प्रथमावतारमेव सेतुबन्धसमीपेऽन्धौ प्रास्यत् । ततश्च कालान्तरेण धाराधीशेन
भोजेन सेतुवन्धयात्रां कुर्त्रताऽकस्मादृष्टे कस्मिंश्चिच्छिलाफलके कतिपयश्लोकान्निरीक्ष्य
निजसेवकैर्यावच्छक्यं तत्रत्याः शिलाः सागरात्समुद्धृत्य सर्वो व्यस्तक्रमां काव्यलिपि
तां कथंकारं संगृह्य निजसभामहापण्डितं मिश्रदामोदरकवि सानुबन्धकाव्यसन्दर्भसं-
गुंफनायाज्ञापयत् । तदनुज्ञया च स यथोपलब्धमेनं प्रवन्धं यथाबुद्धिबलं सरलं चकारेति
किंवदन्ती संप्रचलति । तत्प्रमाणभूतं पद्यं च चतुर्दशांके विद्यते-"रचितमनिलपुत्रेणाथ
वाल्मीकिनाब्धौ निहितममृतबुद्ध्या प्राङ्महानाटकं यत् । सुमतिनृपतिभोजनोद्धृतं तत्क्रमेण
ग्रथितमवतु विश्वं मिश्रदामोदरेण ।" इति । अपूर्वा खलु पद्यप्रवन्धरचनात्र महानाटके ।
यद्यप्यत्र नाटकप्रवन्धे कतिपये श्लोकास्ततोऽर्वाचीनैर्भवभूत्यादिभिः
 
कृता
 
दृश्यंते । तथापि नैतस्य सौन्दर्य नाम क्षीयते । अपितु भूयस्तरां पण्डितैरुप-
बृह्यमाणास्य सुषमा समृध्यते ।
 
एतादृशं चैतन्महानाटकमस्माभिः पण्डितवरमोहनदासविरचितटीकासमेतं शा-
स्त्रिजनद्वारा सम्यक्परिशोच्य स्वकीये " श्रीवेङ्कटेश्वर " स्टीम् - मुद्रणालये मुद्रयित्वा
प्रकाशितम् । सर्घेऽपि सन्तो विद्वांसो विद्यार्थिनश्चावश्यमेत ग्रन्थं संगृह्य समनुस्वदन्तु
श्रीसरस्वतीसारसौन्दर्यमित्यर्थयते-
समस्तसज्जनानां कृपाकाङ्क्षी-
खेमराज श्रीकृष्णदास श्रेष्ठी,
मुद्रणालयाध्यक्षः-
मुम्बई.
 
श्रीवेङ्कटेश्वर "