This page has not been fully proofread.

30
 
हनुमन्नाटकं -
 
ज्योत्स्नां कन्दलयंस्तमः कवलयन्नम्भोधिमुद्देलय-
न्कोकानाकुलयन्दिशो धवलयन्निन्दुः समुज्जृम्भते ॥ ४ ॥
पुनश्चन्द्रमेव विशिनष्टि - स्वैर मित्यादिचतुभिः । युवत्यञ्च युवानश्च यूनस्तेपां
न्यूनाम् । अत्रैकशेप: 'पुमान् स्त्रिया ' इत्यनेन । ' स्त्रिया सहीतो पुमान् शिष्यते'
इति तदर्थः । कन्द एव कन्दलः । स्वार्थे लच् । समूहं कुर्वन्नित्यर्थः । अन्यत्सुग
 
मम् ॥ ४ ॥
 
[ अङ्कः-
अद्यापि स्तनतुङ्गशैलशिखिरे सीमन्तिनीनां हृदि
 
स्थातुं वाञ्छति मान एष धिगिति क्रोधांदिवालोहितः ।
उद्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणा-
त्फुडत्कैरवकोशनिःसरदलिश्रेणी कृपाणं शशी ॥ ५ ॥
 
तत्रोदये सरागं चन्द्रमवलोक्य कविरुत्प्रेक्षते- अद्यापीति । असौ शशी तत्क्षणा-
देव तदुदयमात्रादेव फुल्लन्तो ये कैरवास्त एव कोशाः खड्गकोशास्तेंभ्यो: निःसरन्ती
या अलिश्रेणी भ्रमरपङ्क्तिः सैव कृपाणः खङ्गस्तमाकर्पति प्रसह्य गृह्णाति । दिवा तत्र
सुप्ता अलयश्चन्द्रोदयादेव सर्वे पङ्क्तीभूय एकदैव निःसरन्तीति प्रसिद्धम् । कीदृशः ।
उद्यदुद्गच्छन् इति । क्रोधादालोहितः इव । इति किम् । एष मानः सीमन्तिनीनां हृद्य-
द्यापि मय्युद्यते सति स्थातुं वाञ्छतीति । कीदृशे हृदि । स्तनावेव तुङ्गे शैलशिखरे
यत्र ॥ ५ ॥
 
यातस्यास्तमनन्तरं दिनकृतो वेषेण रागान्वितः
स्वैरं शीतकरः करं कमलिनीमालिङ्गितुं योजयन् ।
शीतस्पर्शमवाप्य संप्रति तथा युक्ते मुखाम्भोरुहे
 
हास्पेनैव कुमुद्वतीवनितया वैलक्ष्यपाण्डूकृतः ॥ ६ ॥
 
रागमुत्प्रेक्ष्य पाण्डुतामुत्प्रेक्षते - यातस्येति । अनन्तरं पक्षान्तरे शीतकरोऽस्तं
यातस्य दिनकृतः सूर्यस्य वेषेण रागान्वितो जातः । याहंगरुणो रविरस्ति तादृगु-
दये चन्द्रोऽभूदिति भावः । किं कुर्वन् । स्वैरं यथेष्टं कमलिनीं सूर्यप्रियामालिङ्गितुं
करें किरणरूपं हस्तं योजयन् सन् । संप्रति तदैव तया कमलिन्या शीतस्पर्श-
मवाप्य मुखाम्भोरुहे स्वकीयमुखारविन्दे युक्ते मुद्रिते सति । 'रुद्धे' इत्यपि पाठः
 
+
 
;