This page has not been fully proofread.

२.]
 
दीपिकाख्यव्याख्योपेतम् ।
 
रामं कामं गुरुजनगिरा मन्दिरं सुन्दरं स्वं
 
रम्भोरुस्तं जनकतनया नन्दयन्ती जगाम ॥ २ ॥
 
अथ तयो रतिगृहप्रवेशमाह - अस्तमिति । मुकुलिताया नलिन्याः वान्धवे विका-
सहेतौ सूर्येऽस्तं याते सति प्राचीभागे पूर्वदिग्भागे प्रमदं यथा स्यात्तथा सिन्धुपुत्रे
चन्द्रे उदिते सति, रामं नन्दयन्ती जगाम । कामं सस्पृहम् । 'अकामानुमतौ
कामः स्पृहायामपि संमत : ' इति धरणिः । एतेन नपा द्योतिता । सुन्दरं रामं
मन्दिर वा । उक्तं च कलाविलासे-' रम्यपक्षिरवानन्दं नवचित्रकुलाकुलम् । स्रक्ता-
म्बूलार्हशयनं गृहं सुरतसुन्दरम्' इति ॥ २ ॥
 
-
 

 
२९
 
6
 
प्राचीभागे सरागे तरणिविरहिणि क्रान्तमुद्र समुद्रे
निद्रालौ नीरजालौ विकसितकुमुदे निर्विकारे चकोरे ।
 
काशे सावकाशे तमसि शममिते कोकलोके सशोके
कंदर्पेऽनल्पदर्पे वितरति किरणाञ्छर्वरीसार्वभौमः ॥ ३ ॥
 
पुनरपि सिंहावलोकनन्यायेन चन्द्रोदयमाविष्करोति -प्राचीभागे इति । तरणि-
विरहिण्यपि प्राचीभागे सरागे सति । एतेन चन्द्रदर्शनात्सत्योऽपि स्त्रियः परपुरुषा-
नुरागं कुर्वन्तीति ध्वनितम् । यतः पूर्वाया दिशस्तरणिरतिप्रियस्तथापि सरागा जा-
तेति भावः । 'यत्रोदेति रविः सैव प्रिया तस्याश्च स प्रियः' इत्यागमोत्तत्वात् ।
सावकाश इति गृहादिदर्शनमेव तत्रावकाशः । तमसि शमं नाशं गते सति,
कोकाश्चक्रवाकास्तेयां लोके समूह शर्वरीसार्वभौम इति । शर्वरीभूपतिश्चन्द्र इति३॥
भविष्ये रामशापेत्यन्तनिकटवर्तिनि कोकलोकानामकस्मा-
न्महोत्पातनिमित्तं पार्श्वस्थितानामपि प्रियाणामनवलोक्तः
शोकसंभवः ॥
 
ननु कोकानां कुतः शोक इत्यपेक्षायामाह - भविष्य इति गद्यम् ॥
 
स्वैर कैरवकोरकान्विदलयन्यूनां मनः खेदय-
न्नम्भोजानि निमीलयन्मृगदृशां मानं समुन्मूलयन् ।