This page has not been fully proofread.

दीपिकाख्यव्याख्यापेतम् ।
रामविवाहवर्णनम् -
निःसाणमर्दलरसालगभीरभेरीझङ्कारतालरव काहलनादजालैः ॥
पूर्ण बभूव धरणीगगनान्तरालं पाणिग्रहे रघुपतेर्जनकात्मजायाः ५६
 
निःसाणेति । ' रसालगोमुखावत्री काहलः संकरध्वनौ ' इति विश्वः । निःसाणो
वाहिनीवाद्यविशेपः ॥ ५६ ॥
 
१. ]
 
२७
 
रामे श्यामे सकामे स्पृशति जनकजापाणिपमं प्रदत्तं
पित्रा नेत्रालिपने मवरपुरवधूमण्डलानां मुहूर्ते ।
तत्पाणिस्पर्शसौख्यं परमनुभवती सच्चिदानन्दरूपं
तत्रासीद्वाणभिन्ना रमणरतिपतेयोगनिद्रां गतेव ॥ -५७ ॥
 
रामे इति । प्रवराः देवाः प्रकृष्टो वरो येभ्यस्ते तत्पूर्व स्वर्गस्त्रीसमूहानामिति
नेत्रश्रेणी पद्मानि यस्मिंस्तादृशे मुहूर्ते रमयतीति रमणः स चासौ रतिपतिश्च तद्वाण-
भिन्ना सती योगनिद्रां गता इवासीत् । एतेन दिग्धप्रलयसात्त्विको दर्शितः । उक्तं
च रसोदधौ - ' सुखदुःखाभ्यां चेष्टाज्ञानविलपनं यदा तदा प्रलय इति ' किंविशिष्टं
तत्पाणिस्पर्शसौख्यम् । सच्चिदानन्दरूपं मोक्षसुखान्तरगमिति ॥ ५७ ॥
 
वैवाहिकं कुशिकनन्दनजामदग्र्य-
वाल्मीकिगौतमवसिष्ठपुरोहितायैः ।
रामो विधिं सह समाप्य सलक्ष्मणस्तै-
रानन्दयञ्जनकज़ां स्वपुरं जगाम ॥ ५८ ॥
 
इति श्रीहनुमन्नाटके जानकीस्वयंवरो नाम प्रथमोऽङ्कः ॥ १ ॥
 
वैवाहिकमिति । सलक्ष्मणो राम एतैः कुशिकनन्दनादिभिः कृत्वा वैवाहिकं विधि
समाप्य तैः कुशिकनन्दनादिभिः सह स्वपुरीं जगामेत्यन्वयः । सलक्ष्मण इति पदेन
सीतानुजयोर्मिलया लक्ष्मणस्यापि विवाहो धोतित इति ध्वनितम् ॥ ५८ ॥
इति श्री मिश्रमोहनदासविरचितायां हनुमन्नाटकदीपिकायां
जानकीस्वयंवरोनाम प्रथमोऽङ्कः ॥ १ ॥