This page has not been fully proofread.

२६
 
हनुमान्नाटकं -
 
[ अङ्कः-
विज्ञे' इति विश्वः । 'उत्तम्भने रवौ विष्टाववष्टम्भस्त्रियामथ' इत्यपि । अत्र सूर्य
उत्तम्भनं वा । अन्यत्सुगमम् ॥ ५२ ॥
 
रामः पश्चाज्जामदश्यचरणकमलयोर्निपत्य-
उत्पत्तिर्जमदग्नितः स भगवान्देवः पिनाकी गुरु-
वर्य यत्तु नयगिरामनुपथं व्यक्तं हि तत्कर्मभिः ।
त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः
सत्यब्रह्मतपोनिधे भगवतः किं किं नलोकोत्तरम् ॥ ५३॥
 
उत्पत्तिरिति । सत्यं यथार्थभाषणम्, ब्रह्म वेदः, तपः कायक्लेश: एतानि निधी-
यन्ते यस्मिन् तत्संबुद्धौ हे सत्यव्रह्मतपोनिधे, भगवतः पूज्यस्य तव लोकोत्तरं लोके-
भ्योऽतिरिक्तं किं किं न ? अपि तु सर्वमेवास्ति । तदेव द्योतयति-जन्मगुरुवीर्य-
त्यागैस्त्वादृशः कोऽपि नास्तीति ध्वनितम् । अन्यत्सुगमम् ॥ ५३ ॥
सदयं परशुरामः ।
 
माता का न शिशोर्वचांसि कुरुते दासीजनोक्तानि या
कस्तातः प्रमदाप्रतारितमतिर्जानाति कृत्यं न यः ।
कश्वायं भरतश्रियामविधिना यो राजते दुर्नयो
व्याषेधार्थमधिज्यधन्वनि मयि श्रीरामभृत्ये स्थिते ॥ ५४ ॥
 
परशुरामः सदयम् । प्रमद्या खिया प्रतारिता प्रलोभिता वश्चिता मतिर्यस्य ।
भरतानां भरतवंश्यानां राज्ञां श्रियम् । भारतश्रियमिति वक्तव्ये वृद्धयभाव आर्षः ।
भरतस्य दौष्यन्तेः श्रियं वा । अविधिना धर्मयुद्धविद्याभावेन यो दुर्नयो न्यायो
राजते तस्य व्याषेधार्थ श्रीरामस्य तव भृत्ये मयि परशुरामे स्थिते सति स
कः ? न कोऽपीत्यर्थः । कोदृशे अधिज्यं धनुर्यरय तस्मिन्निति । अयं क्षेपकश्लोकः
टीकान्तरात् ॥ ५४ ॥
 
ज्ञात्वावतारं रघुनन्दस्य स्वकीयमालिङ्गन्य ततोऽवगाढम् ।
विन्यस्य तस्मिञ्जमदग्निसूनुस्तेजो महत्क्षत्त्रवधान्निवृत्तः ५५॥
महत्तेज ऐश्वरं, क्षात्रं वा । अन्यत्सुगमम् ॥ ५५ ॥