This page has not been fully proofread.

दीपिकाख्यव्याख्योपेतम् ।
 
रामनाट्यवर्णनम् ।
रामस्तदादाय धनुः सहेलं बाणं गुणे योज्य यदा चकर्ष ।
भाति स्म साक्षात्मकरध्वजः स्वर्गतिं प्रचिच्छेद च भार्गवस्य ॥ ४९ ॥
 
१.]
 
२५
 
मकरध्वजः कामरूपः स्वर्गगमनम् । अत्रेयं कथा । रामस्य वाणो निरर्थको न
स्यात्, चेन्मुनये त्यजति तर्हि ब्राह्मणवधः स्यात्, भूमौ चेत्तर्हि भूतपीडा स्यात् ।
एतज्ज्ञात्वा परशुरामस्य स्वर्गगमनमेव चिच्छेदेति भावः ॥ ४९ ॥
तदा सीतानाट्यम् ।
ताटकारावाकर्णमाकर्णविशालनेत्रा ।
 
तच्चापमाकर्षति
 
सासू मैक्षिष्ट विदेहजासौ कन्यां किमन्यां परिणेष्यतीति ॥ ५० ॥
 
P
 
तदाकर्षणे सीतावृत्तमाह -- तच्चापमिति । तच्चापं तस्य मुनेश्चापम् । ताटकारा -
• वितिपदेन रामस्य स्त्रीपु निर्दयत्वमारोपितं सोतया । अन्यत्रीपरिणयनेन ताटका-
वन्ममापि मरणं स्यादिति भावः ॥ ५० ॥
 
भार्गवः सानुनयम् ।
 
यः कार्त्तवीर्यस्य भुजासहस्रं चिच्छेद वीरो युषि जामदग्न्यः ।
स सायके रामकराधिरूढे ब्राह्मण्यदैन्यप्रणयी बभूव ॥ ५१ ॥
भार्गवः सानुनयम् । पूर्वार्धे मुनिशौर्यकीर्तनेन रामशौर्याधिक्यं द्योतितम् ।
अनौद्धत्यं तु ब्राह्मणस्वभाव एवेति द्योतितम् । ब्राह्मण्यं ब्राह्मणस्वभावश्चेदं दैन्यं तव
' प्रणयोऽस्यास्तीति ॥ ५१ ॥
 
धावर्जटिधर्मपुत्र परशुक्षुण्णाखिलक्षत्रिय-
श्रेणीशोणितपिच्छिला वसुमती कोऽस्यामधास्यत्पदम् ।
त्रैलोक्याभयदान
दक्षिणभुजावष्टम्भदिव्योदयो
देवोऽयं दिनकृत्कुलैकतिलकोन प्राभविष्ययदि ॥ ५२ ॥
 
इदानीं मुनिः श्रीरामं स्तौति -- धावद्धर्जटीति । यद्ययं देवो रामःन प्राभविष्यत्
नावतरिष्यत् तर्हि अस्या भूमौ पद कोऽधास्यत् । कुतो नाधास्यदित्यपेक्षायामाह-
धावन्क्षत्रवधार्थ त्वरमाणो यो धूर्जटे रुद्रस्य धर्मपुत्रः शिष्यः तस्य यः परशुस्तेन
क्षुण्णा या अखिलक्षत्रियश्रेणी क्षत्रियपंक्तिः तस्याः शोणितेन पिच्छिला आच्छा-
दिता वसुमती । जातेति शेपः । रुद्रशिष्यत्वेन संहारकत्वं सूचितम् । 'प्रवीणदक्षिण