2023-03-19 23:53:09 by ambuda-bot
This page has not been fully proofread.
• [ अङ्क:-
Butlle
२४
हनुमन्नाटकं -
पराजयहेतुत्वात् । स्वयमप्यहं रघुकुलजातानां राज्ञां पुत्र: पौत्रो वा न । ब्राह्मणाव-
माननहेतुत्वात् । तेषां तदभावात् अतोयं भूलोकस्थो जनः अयं कौतुकार्थ आगतो-
ऽपि देवादिगणो मां वीरं कलयतु जानातु अवीरं वा 'न शौर्य ब्राह्मणे हि मे
इत्युक्तत्वात् । मया दुष्टस्यास्य द्विजदमनदीक्षायां परिकरः कटिस्थवस्त्रग्रन्भिर्वद्धो-
ऽस्ति । ' स्यात्सज्जत्वं परिकरः' इति विश्वः ॥ ४६ ॥
भूमात्रं कियदेतदर्णवमितं तन्निर्जितं हार्यते
यद्वीरेण भवादृशेन ददता त्रिःसतकृत्वो जयम् ।
डिम्भोऽयं नवबाहुरीदृशमिदं घोरं च वीरव्रतं
तत्क्रोधाद्विरम प्रसीद भगवआत्यैव पूज्योऽसि नः ॥ ४७ ॥
'
एतन्मनसि विचार्य तत्तुल्यः पुनरपि शान्त्यैव वदति - भूमात्रमिति । प्रकर-
णार्थ: सुवोध एव । कटाक्षमुपक्षिपति । यदा यत्र विजये लाभत्रयमस्ति तदैश्वर्य-
महणं, आत्मजयघोपणं, शत्रुहननं चेति तेषां तु तत्पराजये किमपि नास्तीत्याह-
यत् भूमात्रं न त्वन्ये लोकास्तत्राप्यर्णवमितं न तु सर्वा भूः । तत्रापि भवादृशेन
वीरेण त्यादृशेन शूरेण । तत्रापि त्रिः सप्तकृत्वो न त्वेकवारं निर्जितं तत् हार्यते
त्वया त्याज्यते, आदाय गृह्यत इति एतत्कियत् ? न कियदिति । तदपि भूमात्रं तव
नास्तीति भावः । किंशिष्टेन वीरेण । जित्वा ब्राह्मणेभ्यो ददता । एतेनैश्वर्यग्रहण-
मपि नास्ति । तार्ह जयो भविष्यति सोऽपि नास्तीत्याह । अयं ऋक्ष्णो जनः
नववाहुस्तरुण इति । त्वंतु डिम्भो वृद्धः । 'डिम्भोऽत्री बालवृद्धयोः' इति विश्वः ! .
वीरव्रतं ईशं घोरं ' चालवृद्धौ परित्यक्त्वा सास्त्रं हन्यान्न चक्रकम् ' इति राज-
नीतौ । कीदृशं वीरव्रतम् । अजयं वृद्धजयेऽप्यजयमेवेत्यतो जयोऽपि नास्ति ।
'यथा कथंचिदत्युग्रं रिपुं न्याद्विचक्षणः' इति वाक्याद्धोऽपि हन्तव्यश्चेत्तत्राह-
त्वं नोऽस्माकं जात्यैव ब्राह्मणजात्यैव पूज्योऽसि न क्षात्रेण अतः पूज्ये वधाभावः ।
तस्मात्वं क्रोधाद्विरम, प्रसीद च । आत्मवधेनास्मभ्यमयशो मा देहीत्यभिप्रायः ।
संकरोऽयमलंकारः ॥ ४७ ॥
42
४
द्वि: शरं नाभिसंधत्ते द्विः स्थापयति नाश्रितान् ।
विर्ददाति न चार्थिभ्यो रामो दिर्नाभिभाषते ॥ ४८ ॥
इत्युक्तेप्युत्कटमात्मनात्रपणसाफल्यं श्रावयति -- द्विः शरमिति सुगमम् ॥४८॥