This page has not been fully proofread.

१४.]
 
दीपिकाख्यव्याख्योपेतम् ।
 
२२१
 
व कथां प्रापितः । रामोवतीर्य रावणं हत्वा वैकुण्ठं गत इति कथैवावशिष्टा ।'
.. कृतराज्यस्य रामस्य वैकुण्ठगमनमुक्तम् ॥ ९३ ॥
 
"रम्यं अरािमचन्द्रप्रबलभुजबृहत्ताण्डवं काण्डशौण्ड-
व्याप्तं ब्रह्माण्डमाण्डे रणशिरसि महानाटकं पाटवाब्धिम् ॥
पुण्यं भक्त्याञ्जानेयप्रविरचितमिदं यः शृणोति प्रसङ्गा-
न्मुक्तोऽसौ सर्वपापादरिभट विजयी रामवत्सङ्गषु ॥ ९४ ॥
 
अथैतन्महानाटकमुपसंहरफमाह -- रम्यमिति । काण्डा वाणा: तेषां
ग्रैण्डेन प्रावीण्येन व्याप्तं धनुर्वेदवैदग्ध्यं सदिति ब्रह्माण्ड एव भाण्डं पात्र तत्र
पुण्ये रणशिरास पाटवाब्धि रणामार्गागाधम् सुवोधम् ॥ ९४ ॥
 
चतुर्दशभिरेवाङ्गैर्भुवनानि चतुर्दश ।
श्रीमहानाटकं धत्ते केवलं ब्रह्म निर्मलम् ॥ ९५ ॥
 
चतुर्दशभिरिति । महानाटककर्ता चतुर्दशसंख्याकानि भुवनानि प्रति ब्रह्म मोक्षं
त्ते प्रापयति । एकैकाङ्कवर्णनादेकैकलोकस्य मोक्षः स्यात्किं पुनः सर्वस्य श्रवणस्येति
वः । किंभूतम् । ब्रह्म फेवलमित्युक्तम् ॥ ९५ ॥
 
$
 
रचितमनिलपुत्रेणाथ वाल्मीकिनाब्धौ
निहितममृतबुद्धया प्राङ् महानाटकं यत् ।
सुमतिनृपतिभोजेनोद्धृतं तत्क्रमेण
यथितमवतु विश्वं मिश्रदामोदरेण ॥ ९६ ॥
इति श्री पवनतनयविरचितमिश्रदामोदरसंगृहीतहनु-
मन्नाटके श्रीरामविजयो नाम चतुर्दशोङ्कः
 
समाप्तः ॥ १४ ॥
 
चितमिति । हनुमतः प्राक्कालकर्तृत्वमेतस्याद्यतनीयत्वाभावात्तत्कथयन्पद्यमवतार-
ति-अमृतबुद्धथेति । वाल्मीकिना क्रमेण कथनाद्यनुक्रमेण भोजेनोद्धृतम् । अत्रेयं