This page has not been fully proofread.

२२०
 
हनुमन्नाटकं -
 
[ सङ्कः-
किंवदन्तीसीतेन रामचन्द्रेण दत्तानो लक्ष्मणो वाल्मीकेराश्रमं तथा दोहदत्त्वेन पूर्वमेव
वृत्तं त्यक्तवानिति ॥ ९० ॥
 
तत्र त्यक्तसीतो लक्ष्मणो विलपति-
1
 
वने विमोक्तुं जनकस्य कन्यां श्रोतुं च तस्याः परिदेषितानि ।
सुखेन लंकासमरे हतं मामजीवयन्मारुतिरात्तवैरः ॥ ९१ ॥
 
वनेति । लङ्कासभरे सुखेन हतं मां मारुतिर्हनुमानजीवयत् । अत एवात्तवैरः
कृतवैर इवेति । इदानीमहमेव दुःखेन मारण्यामीति भावः ॥ ९१ ॥
 
पशुरपि न मृगो मृगी मृगेन्द्र-
ध्वनिचकितः प्रसवक्षणे जहाति ।.
अयमरघुरजानकीयमावां
 
यदि न स जीवति निर्दयोग्य वेधाः ॥ ९२ ॥
 
पशुरपौति । प्रसवकाले पशुरपि मृगः मृग न जहाति तत्रानुरच्य
मृगेन्द्रस्य सिंहस्य शब्देन चकितोपि देहपातमङ्गीकृत्य मृगस्तिष्ठति । भीतस्यादु-
रक्तेरभावात् । अयं रामस्त्यक्तवानेव तत्र विचिकित्सति-अयं रामः अरघुः रघुवं
ग़जन्मा न, तेषां निर्दयत्वाभावात् । इयमप्यजानकी जनकजा न, तस्यास्तद्वि-
रहेण प्राणधारणत्वायोगान् । आवां रामलक्ष्मणयोर्मध्ये यदि स राम एव तस्याः
विरहेण जीवति तर्हि वेधा निर्दयोस्ति । सीतानिर्वासनात् रामलोकान्तरप्राप
कत्वाच्च ॥ १२ ॥
 
यद्धनं धनुरीश्वरस्य समरे यज्जामदग्यो जित-
स्त्यक्ता येन गुरोगिरा वसुमती सेतुः पयोधौ कृतः ।
एकैकं दशकन्धरक्षयकृतो रामस्य किं वर्ण्यते
दैवं वर्णय येन सोपि सहता नीतः कथाशेषताम् ॥९३॥
 
रामं वर्णयन्दैवे दुर्लव्यत्वमाह - यदिति । येन तस्य रामस्यैकैकमसाधारणं वृत्तं किं
वर्ण्यते कर्मानन्तत्वीनयमा । अतो दैवमेव वर्णय येन सोप्येताहग्वलोपि राम
 
कं
 
3