This page has not been fully proofread.

२१८
 
हनुमन्नाटकं -
 
[ अङ्क:-
इत्यमरः । चकारात् अरेः रावणस्य चापो धनुरेव शेषः शिवः मदो गर्वोपि शेषो
नन्तः एतावपि समकालमेव समुद्रतौ । द्वितीयचकारात्पुनः शेषग्रहणं 'हर्यनन्त-
शिवाः शेषाः' इति शाश्वतः । सूर्याचन्द्रमसौ रुद्रानन्तौ च एकत्र स्थिताः प्रलयमेव
कुर्वन्ति तदुनिष्टशान्त्यै तेभ्यश्चतुर्भ्यो य अनिष्टस्तस्य शान्त्यै त्वत्खड्गमेव तीर्थ जातं
त्वत्खनमाश्रित्य सर्वे नष्टा इति भावः । प्रतापमदचापस्तु शरीरपर्यन्ता एव तदूध-
तिरेकेण यशसः स्थितिरस्ति तदपि सीतापहरणान्नष्टम् । यद्वा स्पष्टमेव यत्समकालमेव
तुभ्यं रावणः यशःप्रतापौ समुद्रतौ आदिचापो मदश्व समुद्गतौ तेभ्यो यदुनिष्टं
तच्छान्त्यै त्वत्खङ्गतीर्थमेव शेष: समर्थो जातः । तन्नाशोप्यवशिष्यत इति
शेषः ॥ ८६ ॥
 
किंचित्कोपकलाविलासविभवव्यावल्गमूर्ते भुजो
निक्षेपादकरोन्निशाचरबलं प्रत्यर्थिनां यत्पुरः ।
क्रंदत्स्फेरु रटत्कफेरु विघटद्दार स्फुटद्गुग्गुलु
प्रक्रीडत्कपिनिःश्वसत्फणिरटगिल्लिमद्दपि च ॥ ८७ ॥
 
किंचिदिति । किंचित्तुच्छा या कोपकला तस्या विलासस्य यो विभवस्तेन
व्यावल्गा विगतमावल्गनं यस्याः सा मूर्तिर्यस्य तत्संबुद्धौ हे तुच्छकोपविलासागाध
राम, तव भुजः प्रत्यर्थिनां रावणेन्द्रजिदादीनां विक्षेपाद्धननान्निशाचरबलं रक्षः सैन्यं
यदिति प्रसिद्धं तत्तथा अकरोत् । कथं तदाह - ॠन्दन्तः फेरवः शिवाः यस्मै
तदकरोत् ' फेरुः शिवा सृगालखी ' इति विश्वः । सप्तविशेषणैः सैन्यं विशिनष्टि-
रटन्तः कफेरवो यस्मै तत् 'कङ्क: कफेरुर्वाङ्गः' इति विश्वः । पुनः किंभूतम् ।
विघटन्ति भन्यमानानि दारूणि येन तत्तत्पातेन वृक्षपातप्रसङ्गात्स्फुटत् धूपितो गुग्गुलः
यत्र तच्छिरोग्रहणाद्देवीनां महोत्सवे गुग्गुलुधूपः प्रक्रीडिताः कपयो येन तत् । इदं
कस्य इदं कस्येति शिरचालनं क्रीडनं विश्वसन्नतिभारेण फणी शेषो येन तत् । रटन्त्यः
आक्रोशन्त्यो राक्षस्यो राक्षसस्त्रियो यस्य तत् । मिल्ली रक्षः स्त्रियामपि । इति
चरकः । भ्रमन्तो द्वीपिनो व्याघ्रा यस्य तत् 'द्वीपी ना व्याघ्रगृध्रयोः' इति हैमी ८७॥
 
{
 
शैत्यं ज्ञानविकारिणो न हि भवेत्रहो वाहिनी
यैर्दृष्ट्वा रणलम्पटं भुजयुगं दृष्टं पुनस्तावकम् ।