This page has not been fully proofread.

१४. ]
 
दीपिकाख्यव्याख्योपेतम् ।
 
२१७
 
पाञ्चजन्यः शङ्खः करक: शेपो नागः । 'शेपेपि करकः पुमान्' इति नाम-
शेपे ॥ ८२ ॥ ८३ ॥
 
खयोतयुतिमातनोति सविता जीर्णोर्णनाभालय-
च्छायामाश्रयते शशी मशकतामायान्ति तारादयः ।
इत्थं वर्णयतो नभस्तव यशो यातं स्मृतेर्गोचरं
यच्चास्मिन्त्रमरायते रघुपते वाचस्ततो मुद्रिताः ॥ ८४ ॥
 
खद्योतेति । हे रघुपते, इत्थमुक्तरीत्या तव यशो वर्णयतः मम नभ इत्य
चकारः । इति स्मृतेर्गोचरं स्मरणगोचरमभूदिति । इति किम् । यस्मिन्नभसि सविता
खद्योतदीप्तिमातनोति । शशी जीर्णमर्कटिकागेहप्रभामाश्रयति । तारादयो मशक-
तामायान्ति । तच्च नभ: शुभ्रे तव यशसि भ्रमरवदाचरते । ततः कारणाद्वाचो
मुद्रिता: वर्णनसामर्थ्यायोगादाकाशानन्त्यत्वात्त्वद्यशसोप्यानन्त्यमुक्तम् ॥ ८४ ॥
 
कृत्वा मेरुमुलूखलं रघुपते वृन्देन दिग्योषितां
स्वर्गङ्गामुसलेन शालय इव त्वत्कीर्तयः कण्डिताः ।
तासां राशिरसौ तुषारशिखरी तारागणास्तत्कणाः
प्रोयत्पूर्ण सुधांशुविम्बमसृणज्योत्स्नाश्च तत्पांसवः ॥ ८५ ॥
 
कृत्वेति । हे रघुपते, दिश एव योपितस्तासां वृन्देन मेरुमेवोल्लखलं कृत्वा स्वर्ग-
नैव मुसलं तेन त्वत्कीर्तयः शालय इव कलमा इव कण्डिता निस्तुषीकृतास्तासां
कीर्तीनामसौ तुपारशिखरी हिमवानाशिरभूत् । तारागणस्तत्कणाः यथा तण्डुलकणा
भवन्ति तद्वत्प्रोग्रंश्चासौ पूर्णसुधांशुश्च तस्य विम्बस्य या मसृणा निविडा ज्योत्स्नास्ता
एव तत्पांसवः धूलीस्थानीयाः ॥ ८५ ॥
 
समुद्रतौ यत्समकालमेव यशःप्रतापौ तव पुष्पवन्तौ ।
रामारिचापश्च मदश्व शेषस्त्वत्खङ्गतीर्थं तदनिष्टशान्त्यै ॥८६॥
 
अथाङ्गदो रामबाहुप्रशस्तिमनुवर्णयति- समुद्रताविति । हे राम, यद्यस्मात्सम-
कालमेव एकदैव रावणस्य यशःप्रतापावेव पुष्पवन्तौ सूर्याचन्द्रमसौ तव तुभ्यम् ।
संप्रदाने पछी । समुद्रतौ सम्यगुदितौ । 'एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ