This page has not been fully proofread.

:)
 
१४.]
 
दीपिकाख्यव्याख्योपेतम् ।
 
२१५.
 
कूर्म इति । दीपिकादीपकेनात्र प्रतापवर्णनं सुवोधमेव" । अङ्गयष्टिर्दीपि
 
कादण्डः ॥ ७७ ॥
 
#
 
कैलासो निलयंस्तुषारशिखरी विंदिर्गिरीशः सखा
स्वर्गङ्गा गृहदीर्घिका हिमरुचिश्चन्द्रोपलो दर्पणः ।
क्षीराब्धिर्नवपूतकं किमपरं शेषस्तु शेषत्विषो
यस्याः स्यादिह राघवाक्षतिपते कीर्तेस्ताकस्तव ॥ ७८ ॥
 
कैलास इति । हे क्षितिपते राघव, तस्यास्तव कीर्तेस्तटाक: आनन्त्यमस्ति ।
' तटाकोनन्ततायां ना तडागेपि भृशाधमे' इतिधरणिः । कस्याः । यस्याः कैलासो
निलयः स्थानं तुषारशिखरी हिमवान्विन्दिः उपवेशस्थानम् । 'विन्दिस्तम्भोपवे-.
शनौ' इति विश्वः । हिमरुचिश्चन्द्रोपलः चन्द्रकान्तपाषाणश्च । दर्पणो मुकुरः । पूर्तकं.
तटाक: शेषोनन्तः शेषत्विषोङ्गदीप्तयः शेषशब्दादन्योप्यर्थः । यस्य स्यादिति पाठे
तव कीर्तेस्तटाक: तडाग: स्यात् अस्तु । यस्य तडागस्य कैलासो निलय: नितरां :
लीयते येन स जलान्तः स्तम्भः हिमवान् विन्दिर्बहिस्तम्भः गिरिशो रुद्रः सखा :
तदधिष्ठाता देवः गृहदीर्घिका तदन्तरालकुण्डः चन्द्रः चन्द्रोपलोपि दर्पणः तदन्त-
ग्रवाणः । चन्द्रोपलेति जात्येकत्वम् । 'दर्पणे भावमुकुरौ' इति धनंजयः । नवपूर्तकं
जलयुक्तखानितदेश: 'नव्यपानीययोर्नवः' इति विश्व: । 'पूर्तकं जलखानितम्' इति
हमी । शेपदीप्तयः सेतुरेतस्य नास्त्येवानन्तत्वात् ॥ ७८ ॥
 
क्रांत्वा भूवलयं दशास्यदमन त्वत्कीर्तिहंसी गता
सापि ब्रह्ममरालसङ्गमवशात्तत्रैव गर्भिण्यभूत् ।
यात्वा व्योमतरङ्गिणी परिसरे कुन्दावदातं तया
मुक्तं भाति विशांकुरं ततमिदं शीतयुतेर्मण्डलम् ॥ ७९ ॥
 
क्रान्त्वेति । हे रावणहन्तः त्वत्कीतिरेव हंसी भूवलयं क्रान्त्वा भ्रान्त्वा अत्रात्म-
मूर्त्यभावात् ब्रह्मलोकं गता । ब्रह्मलोकमिति वक्ष्यमाणार्थावगमागृह्यते । सापि तत्र
यात्वा गत्वा ब्रह्मणो यो मरालो हंसस्तत्सङ्गमवशाद्दर्भिण्यभूत् । तया कीर्तिहंस्या
गङ्गासमीपे शीतयुतेर्मण्डलं मुक्तं जनितं तदेतद्भाति । किंभूतं मण्डलम् । कुन्द-