This page has not been fully proofread.

हनुमन्नाटकं -
 
तदा च-
आकाशवाण्यभवदेवमहो स वाली
" दासो हनिष्यति पुनर्मथुरावतारे ।
श्रुत्वा विलोक्य रघुनन्दनवानराणां
कारुण्यमञ्जलिपुटं स रणान्निवृत्तः ॥ ७५ ॥
 
२१४
 
[ अङ्कः-
आकाशेति । एनं रामं मथुरावतारे कृष्णरूपिणं वाल्येव दाशः व्याधरूपधारी ।
' कैवर्ते दाशधीवरौ ' इत्यमरः । इति वाणीं श्रुत्वा रघुनन्दनस्य तथा वानराणां
च कारुण्यं यथा स्यात्तथाऽञ्जलिपुटमवलोक्य रणान्निवृत्त इति ॥ ७५ ॥
 
अङ्गदः -
 
पितृवधप्रतीकारो भविष्यतीति सानन्द कोपमपहाय
शान्तिमेत्य रामं स्तौति ॥
 
देव-
अकर्णमकरोच्छेषं विधिर्ब्रह्माण्डभङ्गधीः ।
 
गुणानाकर्ण्य रामस्य शिरःकम्पभयादिव ॥ ७६ ॥
 

 
अकर्णमिति । एतेन गुणानां मनोहारित्वमुक्तम् । कम्पोत्र सात्विकः । यद्यपि
शेषशिरःकम्पनेन त्रैलोक्यमेव नश्यति तथापि तदुपीरस्थानां हविर्देयाभावाद्ब्रह्मा-
ण्डभङ्ग उक्तः ॥ ७६ ॥
 
हनूमान्-
कूर्मः पादोङ्ग यष्टिर्भुजगपतिरसौ भाजनं भूतधात्री
तैलापूराः समुद्राः कनकगिरिरयं वृत्तवत्तिमरोहः ।
अर्चिश्वण्डांशुरोचिर्गगनमलिनिमा कज्जलं दह्यमान-
शत्रुश्रेणीपतङ्गो ज्वलति रघुपते त्वत्प्रतापप्रदीपः ॥ ७७ ॥