This page has not been fully proofread.

१४. ]
 
दीपिकाख्यव्याख्योपेतम् ।
 
२१३
 
यनानि तेषां शिखरैराधिक्यैः अशून्यात्मा पूर्ण: । 'प्रावोऽभिनयनं हारः' इति धनं-
जयः । पुनः किंभूतः सेतुः । तत्प्रमाणबद्धः । क इव । अपां भर्तेव । एवमुभयथा
वर्णनीयं मयैव व्याख्यातं अन्यदप्यूयमप्रसन्नैः ॥ ६९ ॥ ७० ॥ ७१ ॥
 
अङ्गदः --
 
अकस्मात् वानरभटेभ्यः समुत्पत्य पितृहन्तारमव-
लोक्य दोस्तम्भास्फाल केलिमभिनीय क्रोध नाटयति ॥
. रामचन्द्र त्वयादिष्ट यद्यत्तत्तन्मया कृतम् ।
यतस्त्रैलोक्यनाथोसिन च त्याज्यं गुरोर्वचः ॥ ७२ ॥
 
रामेति । यद्यद्दौत्यादिकम् । यत इति यदि त्रैलोक्यनाथोसि तथापि गुरोर्वा
लिनः वचः वैरं न त्याज्यम् । 'वैरं वाचो वचो नित्यम्' इति विश्वः ॥ ७२ ॥
 
पश्य श्रीरामचन्द्र त्वदभिमतमहो लक्ष्मणेनापि पूर्णे
तूर्ण रङ्गावतारेऽवतरतु स भवानाहतो येन तातः ।
सुग्रीवेणाञ्जनेय प्रमुखभटचमूचकवालेन साईं
त्यामेकेनाङ्गदोहं पितृनिधनमनुस्मृत्य मध्नामि दोष्णा ॥ ७३ ॥
 
पश्येति । त्वद्भिमतं त्वयानुमानितं सैन्यं स भवानपि रङ्गावतारे अवतरतु ।
येन त्वया तातो हतः । पितृनिधनं नाशं अनुस्मृत्य एकेन दोषणा सुग्रीवादिभिः
सार्धं मध्नामि ॥ ७३ ॥
 
श्रुत्वानन्दस्य महतीं समरप्रतिज्ञां
ते चुक्षुभुः कपिचमूपतयः सरामाः ।
सौमित्रिरप्यनपराधिनमाहतं तं
 
मत्वा कृतांजलिपुटः पुरतो बभूव ॥ ७४ ॥
 
श्रुत्वेति । सकरुणः रामः लक्ष्मणोपि तं वालिनं निरपराधिनमाहतं मत्वा पुरतोऽ -
सदाग्रे कृताञ्जलिपुटो बभूव ॥ ७४ ॥