This page has not been fully proofread.

हनुमन्नाटकं -
 
सवैदग्ध्यम् -
 
भो ब्रह्मन्भवता समं न घटते संग्रामवार्तापि नो
सर्वे हीनबला वयं बलवतां यूयं स्थिता मूर्धनि ।
यस्मादेकगुणं शरासनमिदं सुव्यक्तमुर्वीभुजा-
मस्माकं भवतो यतो नवगुणं यज्ञोपवीतं बलम् ॥ ४० ॥
पुनरपि सवैदग्ध्यमांक्षिपति- भो ब्रह्मन्निति ॥ ४० ॥
जातः सोऽहं दिनकरकुले क्षत्रियः श्रोत्रियेभ्यो
विश्वामित्रादपि भगवतो दृष्टदिव्यास्त्रपारः ।
अस्मिन्वंशे कथयतु जनो दुर्यशो वा यशो वा
विशे शस्त्रग्रहणगुरुणः साहसिक्याविभूमि ॥ ४१ ॥
परशुराम: ( साभ्यसूयम् )
येन स्वां विनिहत्य मातरमपि क्षत्रास्त्रमध्वासर्व
स्वादाभिज्ञपरश्वधेन विदधे निःक्षत्त्रिया मेदिनी ।
यद्वाणवणवर्त्मना शिखरिणः क्रौञ्चस्य हंसच्छला -
दद्याप्यंस्थिकणाः पतन्ति स पुनः क्रुद्धो मुनिर्भार्गवः ॥४२॥
दृष्टं ज्ञातं दिव्यास्त्राणां पारमन्तो येन स विप्रे विपये शस्त्रग्रहणं गुरुर्भारो यस्मि
स्तादृशात्साहसिक्यातु । श्रोन्नियेभ्यः वेदाध्ययनाग्निहोत्रादिकर्मणा श्रेष्टेभ्यः सुग-
मम् ॥ ४१ ॥ ४२ ॥'
 
२२
 
स्त्रीषु प्रवीरजननी जननी तवैव
देवी स्वयं भगवती गिरिजापि यस्यै ।
त्वद्दोर्वशीकृतविशाखमुखावलोक-
बीड़ाविदीर्णहृदया स्पृहयांबभूव ॥ ४३ ॥
 
[ अङ्क