This page has not been fully proofread.

२१०
 
हनुमन्नाटकं -
 
अङ्कः-
( अत्र रात्रौ सुखसुप्ताः सर्वे यथास्थानं प्रातरागत्य )
विभीषणः रामपादौ प्रणम्य देव-
किंकुर्वाणपयोधिसेवितगृहोद्याना मुदे सर्वतो
लंकेयं रघुवंशविक्रमकथाबीजप्ररोहस्थली ।
देवेनात्र दशाननस्य दशभिश्छिन्नैः शिरोभिः क्रमा-
देकैकेन शतं शतं शतमखस्यामोदिता दृष्टयः ॥ ६५ ॥
 
किमिति । अत्र लोकरीत्या सुखाभाव: । रामगुणस्मरणात् सुखं द्योतयन्नाह - हे
रघुवंश, इयं लङ्का किं सुखाय न कस्मैचिदितिं । किमाक्षेपे । अल्पसुखायेयम् ।
कीदृशी लङ्का । सर्वतः उपकुर्वाणो यः पयोधिस्तेन सेवितानि गृहोद्यानानि यस्यां
सा । 'नानोपकारगम्भीर: कुर्वाणो ना पर: सुखी । इति शाश्वतः । अत्रापि
रत्नासनदुर्गविधायित्वनानाजनसेवनादिनोपकारता । अथानिच्छां द्योतयति यत्र
देवेन भवता रावणस्य छिन्नैर्दशभिः शिरोभिः क्रमादेकेन शिरसा इन्द्रस्य शतंशतं
दृष्टय: मोदिताः सुखिनः कृताः सहस्रनयनत्वात् । अत्रेच्छायां माशब्दः 'कोपे-
च्छ्योर्मा इष्टः स्यात्' इति हैमी । रघुवंशशब्दोत्रापि रघुवंशस्य या विक्रमकथासव-
बीजं तस्योत्पादकं स्थलं यस्यां सा ॥ ६५ ॥
 
रामस्ततस्तत्कालयोग्योपकरणे छत्रचामरादिभिर्वि-
भीषणं संभाव्य पुनरयोध्यां राज्यभोगाय प्रस्थितः ॥
तत्र सुग्रीवः देव-
वाजिबातखुरप्रहारदलितक्षोणीरजोभिर्युत
सान्द्रैर्जीर्णकपोतकण्ठरुचिभिव्यमैदमास्तर्यते
किञ्चानेककरीन्द्रगण्डविलसद्दानाम्बुधाराधनं
 

 
संग्रामं प्रथयन्त्यमी परिमलप्रोद्गारिमन्दानिलाः ॥ ६६ ॥
 
वाजीति । हे राम, वाजिनाताः अश्वसमूहास्तेषां खुरप्रहारेण दलिता चूर्णीकृता
या क्षोणी तस्या रजोभिरिदमयतो दृश्यं व्योम आच्छाद्यते । किंभूतैः । 'वृद्धकयो॒-