This page has not been fully proofread.

१४. ]
 
दीपिकाख्यव्याख्योपेतम् ।
 
हनूनदुपकृतिमुक्त्वा सुग्रीवोपकृतिं कथयन्नात्मनः कृतज्ञतामाविष्करोति - निवास
इति । कान्तारे अतिदुर्गमे । एतेनान्यजनसङ्गमोपि निरस्तः । वियोगाधिर्मनोव्य-.
2) थायासः पिलभुजां मांसाशिनां धुरीणः । अनेन मनुष्यभक्ष्यत्वमुक्तम् । स च रिपुः
पुनः अकृपारं पारे समुद्र पारे वसति । एतन्निपातनं, अनैतादृश्यवस्थायां का प्रति--
कृतिः कः प्रतीकारः ? परंतु यदि सुग्रीवो मित्रं न स्यात्तदा राघवस्य मम कथा एता-
-
वती वनस्थो रामस्तद्भाय रावणेन हृतेति ॥ ६२ ॥
 
A
 
( अत्रांतरे चन्द्रोदयो बभूव ) रामः- देवि !
पश्योदेति वियोगिनो दिनमणिः शृंगारदीक्षामणिः
प्रौढानङ्गभुजङ्गमस्तकमणिश्चण्डीशचूडामणिः ।
तारामौक्तिकहारनायकमणिः कन्दर्पसीमन्तिनी-
काञ्चीमध्यमणिश्च कोरतरुणीचिन्तामणिश्चन्द्रमाः ॥६३ ॥
 
पश्येति । हे प्रिये, पश्य चन्द्रमा उदेति । यं दृष्ट्वा सर्व: प्रफुल्लति तथा कामश्चेति
हरशिरोभूपणं कलारूपेण । एतेनात्र रुद्रयोगादेव वियोगिदाहकत्वमुक्तम् । ताराः
एव मौक्तिकानि तेषां हारस्य मध्यमुख्यरत्नं, रतिकाच्या मध्यमणिः एतेनास्य दर्श-
नात्कामकेलौ रत्यतिशयो द्योतितः । चिन्तामणित्वेन संयोगिनीनां फेलिप्रदीपक-
त्वमुक्तम् ॥ ६३ ॥
 
प्राचीनस्मृतविरहव्यथातिभीतः
 
काकुत्स्थः कृतकुतकाक्षिमीललीलः ।
सम्पूर्ण शशिनि चिराय लग्नदृष्टेः
प्रेयस्याः स्थगयति लोचने कराभ्याम् ॥ ६४ ॥
 
J
 
" प्राचीनेति । रामः प्रेयस्याः लोचने कराभ्यां स्थगयति आच्छादयति । नेत्रा-
च्छादने हेतुमाह - संपूर्णे शशिनि चिरं लग्ना दृष्टिर्यस्याः । आत्मन्याच्छादकत्वहेतु-
माह - प्राचीना पूर्वकालीना स्मृता या मृगनिदाना विरहव्यथा तया भीतः ।
आच्छादने वैदग्ध्यमाह- कृता कुतुकार्थं निलयनज्ञानार्थ अक्षिनिमीलनस्य लीला
क्रीडनं येन सः । कनकमृगवन्मृगाकमगमपि याचयिष्यतीति भावः ॥ ६४ ॥
 
१४