This page has not been fully proofread.

२०८
 
हनुमन्नाटकं -
 
चिराय भुज्यतामिति । विभीषणं लंकाधिपत्याभिषेक
नाटयति । ततो रामः आत्मानं पुष्पक विमाने जानकी
चारोप्य समरभूमिं दर्शयति प्रिये जानकि ! पश्य ।
अत्रासीत्फणिपाशबन्धनविधिः शक्त्या भवदेवरे
गाढं वक्षसि ताडिते हनुमता द्रोणाद्रिरत्राहृतः ।
दिव्यैरिन्द्र जिदत्र लक्ष्मणशरैलोकान्तरं प्रापितः
केनाप्यत्र मृगाक्षि राक्षसपतेः कृत्ता च कण्ठाटवी ॥६० ॥
 
[ अङ्क-
अत्रेति । नागपाशवन्धनं रावणशक्त्या अर्थान्ममेति । एतत्पद्यस्थं वृत्तं अयोध्या-
गमनसमये रामेण सीतायै कथितम् ॥ ६० ॥
 
हन्तीति ज्वलितः कृशः कपिरपि ब्रीडावनम्राननो
लीलालंघितवाहिनीपतिरिति श्लाघाचलत्कन्धरः ।
रामस्यायमितीर्ण्यया कलुषितः पश्यन् प्रिये त्वत्कृते
विक्रामत्यनिलात्मजे दशमुखः कां कामवस्थां गतः ॥ ६१॥
 
अथ हनूमदुपकृतिं श्रावयन्त्रावणभयमाह - हन्तीति । प्रहरतीति ज्वलितः कृशो-
ल्पतरः कपिरिति श्रुत्वा ब्रीडयावनम्रमाननं यस्य वाहिनीपतिः समुद्रः 'तटिनी
वाहिनी सिन्धुः' इति हलायुधः । सबै सुवोधम् ॥ ६१ ॥
 
जानकी ( सविस्मयम् ) -
 
भो प्राणनाथ तथाविधात् बनान्तात् कथमिहागतः ।
रामः ( सहर्ष ) प्रियेजानकि-
निवासः कान्तारे प्रियजनवियोगाधिरधिको
धनुर्मात्रत्राणं रिपुरपि धुरीण: पलभुजाम् ।
अकूपारंपारे वसति च स कात्र प्रतिकृतिर्न-
मित्रं सुग्रीवो यादे तदियती राघवकथा ॥ ६२ ॥
 
WAR