This page has not been fully proofread.

१४.]
 
दीपिकाख्यव्याख्योपेतम् ।
 
आगम्याशु ससंभ्रमं बहुतरां भक्ति दधाना पुनस्तत्पादौ
मणिकंकणोज्वलकरा नैव स्पृशत्यद्भुतम् ॥ ५७ ॥
 
श्रीराम इति । सोतायाः विनोदार्थ या प्रीतिस्तया बहुतरं भवद्यमस्वेदाम्बुफणा-
लंकृतं आय कमलं यस्य एवं भूते रामे सति स्वयमपि दिव्यादग्निशपथात् उत्थिता.
ससंभ्रमं सादरमपि शीघ्रभागम्य तत्रापि दृढभक्तिमती सती रामपादौ न
स्पृशति अद्भुतमित्यर्थे एव प्रयोगः । अस्पर्शे हेतुं द्योतयति- मणिकङ्कणोज्ज्वल-
करेति ॥ ५७ ॥
 
२०७
 
अहल्यावच्चरणस्पर्शमात्रेण कंकणमणयोपि योषितो
माभूवन्निति भावः ।
 
सुग्रीवो रामं विज्ञापयति देव !-
इयमियं त्वयि दानव नंदिनी त्रिदशनाथजितः प्रसवस्थली ।
किमपरं दशकन्धरगेहिनी त्वयि करोति करद्वययोजनम् ॥ ५८ ॥
रामो नम्राननो भूत्वा -
 
( किमाज्ञापयति महाभागा मन्दोदरी )
मन्दोदरी-
धन्या राम त्वया माता धन्यो राम त्वया पिता ।
धन्यो राम त्वया वंशः परदारान्न पश्यसि ॥ ५९ ॥
 
अधास्याः पितृपुत्रपतितो महत्त्वं द्योतयति- इयमियमिति । इयमियमित्यादरे
चाँप्सा । त्वयि निमित्तं अपरं करद्वययोजनादन्यत्किं न किमपि ॥ ५८ ॥ ५९ ॥
साधु राम साधु अतः परं यम का गतिः ।
 
ww
 
महाभागे न खलु राक्षसीनां सहगमने धर्मः ।
अतस्त्वया विभीषणालयमास्थाय लंकाचले राज्यं