This page has not been fully proofread.

२०६
 
हनुमन्नाटकं -
 
[ अङ्कः-
चेन्न । रम्याणां वस्तूनां रमणीयता तदुनुभावः स्वस्थे मनसि भवति नतु व्यग्रे ।
अतो रामसीतादिव्यग्रहणादिना व्यग्रत्वम् । सुवोधम् ॥ ५३ ॥ ५४ ॥
 
अथ वानरभटा:-
सत्यं काल
हुताशनस्य वहतो जिह्वातिलीलासर-
स्यङ्गारे सरसीरुहं कमलभूरालोक्य सीताननम् ।
शुद्धेयं जनकात्मजेत्यभिदधौ तावन्नु कीशेश्वरैः
फूफूत्काररखैरपूर रभसा तावन्नभोमण्डलम् ॥ ५५ ॥
 
श्रीरामः- सानन्दम् -
 
वह्निं गताया जनकात्मजायाः
प्रोत्फुल्लराजीवमुखं विलोक्य ।
उवाच रामः किमहो सुरादी
नङ्गारमध्ये जलजं विभाति ॥ ५६ ॥
 
सत्यमिति । कमलभूः ब्रह्मा हुताशनस्य जिह्वा ज्वालास्तासां पंक्तय एव लोला-
सरः क्रोडार्थ सरः तस्मिन्सीतानन मेव सरसीरुहमालोक्य इयं सीता शुद्धा इत्या-
वेदयन्नत्रददेव । तावत्कीशेश्वरैः सुप्रीवादिभिः फूफूत्कारशब्दैर्नभोमण्डलं रभसा
त्वरया अपूरि पूरितम् । कीदृशस्य कालहुताशनस्य । सत्यं यथार्थ शुद्धाशुद्ध-
निर्णयं वहतः ज्ञापयतः । किंभूते जिह्वालीलासरसि अङ्गार अङ्गारप्रचुरे । [अनेवार्थे
वाशब्दः । अनुव्यवधानात्कथमडागमः । अत्रोक्तं कविकामधेनौ- 'धातवः शब्द-
प्रत्ययेपि उपसर्गा धातुसंज्ञाः स्युः धातुत्वादडागमः ] 'कीशोऽस्त्री वानरे मिक्षौ'
इति विश्वः । सुबोधम् ॥ ५५ ॥ ५६ ॥
 
( जानकी सानन्दम् )
 
.
 
श्रीरामे दयिता विनोदविपुलप्रीतिप्रभूतीभव-
त्यस्वेदाम्बुकणावृतस्य कमले दिव्योत्थिता जानकी ।