This page has not been fully proofread.

दीपिकाख्यव्याख्योपेतम् ।
 
कालव्यालविपस्य गारुडमणिधैर्यमो रामभूः
कैवल्यप्रतिभृर्घटेत सुकृतैरामस्य सत्संगमः ॥ ५२ ॥
 
{#.]
 
फालेति । श्रीजमावभूतं अन्य
जनयिता गोद इति भुषोधम् ॥ ५२ ॥
 
जातजवदनुपलब्धिप्रसङ्गः स्यात् मोक्ष-
M
 
इति रघुपतेश्चरणकमलयोः शिरोमधुकरेण मकरन्दमनुभ-
चितुमिच्छति ॥
 
२०५
 
रामः उपसृत्य - साशंकम्-
-
 
हे महान्तो जनाः यद्यपि प्रिया पतिव्रता तथापि चिरं
परमन्दिरस्था दिव्यमन्तरेण कथं मां स्प्रष्टुमर्हति ।
इत्याकर्ण्य रामवाक्यादाकाशावतरन्ति स्म
ब्रह्मादयः । ततो जानकी दिव्योपकरणं नाटयति ॥
तत्र रामो रतिं लेंभे न प्रियाविरहार्दितः ।
यत्सत्यं मनसि स्वच्छे रम्याणां रमणीयता ॥ ५३ ॥
जानकी-
( सत्वरं ज्वलत्पावकमुपगम्य भो भगवन् अग्ने ! )
मनसि वचसि काये जागरे स्वममार्गे
यदि मम पतिभावो राघवादन्यपुंसि ।
तदिह दह ममाङ्गं पावकं पावक त्वं
सुललितफलभाजां त्वं हि कर्मैकसाक्षी ॥ ५४ ॥
इति ज्वलनीदहनान्तराले देहं चिक्षेप ।
 
ननु चिराभीष्टमाप्तौ कथमस्य धैर्यमित्यत आह तत्रेति । रामस्वत्र तस्यां सीतायां
रति यद्देभे तत्सत्यमेव । नन्वनिच्छुश्चेत्प्रियाविरहार्दितोपि नतु तदसौन्दर्यादिति-