This page has not been fully proofread.

२०४
 
हनुमन्नाटकं -
 
[ अङ्कः-
इहेति । शिवशिवेति कष्टंकष्टम् । तानि शिरांसि लुठन्ति चञ्च्वाक्षेपेणेतस्ततःचा
लयन्ति । रेजु: विलसन्ति स्म आविर्भवन्ति ॥ ४९ ॥
ततो लक्ष्मणवायुपुत्रौ विमाने जानकीमारोप्य
सत्वरमानीतवन्तौ ॥
 
(जानकी ससंभ्रममुत्थाय लज्जां नाटयति ) रामः-
जनकतनयां हृत्वा रागी हते दशकन्धरे ।
तद्नु विरहज्वालाजालाकुलीकृतविग्रहः ।
रघुपरिवृढो नाधो नोर्ध्वं न तिर्यगवेक्षते ।
मुकुलितहगम्भोजद्वन्द्वः समाहितवत्स्थितः ॥ ५० ॥
 
जनकतनयामिति । रागो युद्धोत्साहवान्रामो जनकतनयां हृत्वा लङ्कातः स्वशि
विरे आनीय, यद्वा यो जनकतनयां हृत्वा रागी रागवान्यतः एवंभूते दशकन्धरे हते
सति । सर्व सुबोधम् ॥ ५० ॥
 
-
 
( साश्रु स्ववंश्यपरिजनलज्जया च ) हनूमान् - मातर्जानकि !
चापालिङ्गनभंगुराङ्गमदनन्यस्तैक हस्ताम्बुजं
मध्ये मुष्टिनिविष्टपञ्चकशरं बिभ्राणमन्यत्करे ।
वीरश्रीन खरक्षतैरिव नवैर्बाणवणैरङ्कितं
 
वीरं राममवस्थितं प्रणम तं प्रोन्मथ्य लंकाभटम् ॥ ५१ ॥
 
चापेति । चापालिङ्गनेन भंगुरं यदङ्गं तेन मदनमिव अन्यत्करे द्वितीयहस्ते मुष्टे -
मध्ये मध्यमुष्टिनिविष्टो यः पञ्चकशरः शरपञ्चकस्तं विभ्राणं, यद्वा पंचकं पश्चा-
त्मकं रावणदेहं तद्धन्ता शरः पञ्चकशरः वीरश्रीर्विजयलक्ष्मीस्तस्य नखक्षतैरिव
तमिति । प्रसिद्धम् ॥ ५१ ॥
 
जानकी- स्वगतम्
 
तापच्छेदसुधाकरस्तनुमतां क्रोधानलाम्भोधरः
सारासार विवेकशोकभवनं हर्षस्य बीजाश्रयः ।