This page has not been fully proofread.

Y
 
हनुमन्नाटकं -
 
भिन्नैरावतत्र धुसिन्धुरशिरःसंपातिभिर्मोक्तिकैः
शश्वद्विश्वजयप्रशस्तिरचनावर्णावलीशिल्पिने ।
नाकान्तः पुरिकाकपोलविलसत्काश्मीरपत्राङ्कुर-
श्रीविन्यासविनाश भीषणभुजस्तम्भाय तुभ्यं नमः ॥ ४३ ॥
 
सुगमम् गद्यम् । भिन्नैरिति । अथ विप्रलम्भगुणकीर्तनमाविष्करोति । हे प्रिय,
तुभ्यं नमः । किंभूताय । भिन्नानि यानीन्द्र गजवन्धूनां सिन्धुराणां गजानां शिरांसि
तेभ्य: संपतितुं शीलं येपां तैः मौक्तिकैः कृत्वा शश्वत् या विजयप्रशस्तिरचना लिखनं
तयुक्ता या वर्णवली तस्याः शिल्पिने लेखकाय गजकुम्भच्युतमुक्ताहाररेवात्मजय-
प्रशस्ति विलिखतीत्यर्थः । नाकान्तः पुरिकानां स्वर्गान्तःपुरस्थमृगदृशां कपोलेपु
विलसनक्कुंकुमपत्रस्यांकुर: चित्रं तत्र यः श्रीविन्यासः शोभातिशयः तस्य विनाशाय
भोषणः भुजस्तम्भो यस्य ॥ ४३ ॥
 
२०२
 
[ अङ्कः-
हा प्राणनाथ लंकेश !
 
भूयिष्ठानि मुखानि चुम्बति भुजैर्भूयोभिरालिङ्गते
चारित्रवतदेवतापि भवता कान्तेन मन्दोदरी ।
हा लम्बोदरकुम्भमौक्तिकमणिस्तोमैर्ममैकावली -
शिल्पे वागधमणिकस्य भवतो लंकेन्द्रनिद्रारसः ॥ ४४ ॥
 
भूयिष्ठानीति । मन्दोदरी ते भूयिष्ठानि बहूनि मुखानि चुम्बति । कान्तेन भव-
तास्य विनाशाय ताभिर्भुप्रोभिर्भुजैरालिङ्गयत इत्यन्वयः । पतिव्रता देवी हे लङ्केन्द्र
भवतापि निद्रारसो यातः । हा कष्टं, ऋणिनो निद्रारसाभावात् । ऋणमेव द्योत-
यति–लम्बोदरः गजाननो गणेशस्तस्य कुम्भयोः ये मौक्तिकसमूहास्तैर्मम यः एका-
वली हारभेदः 'एकाबल्येकयष्टिका इत्यमरः । तस्याः शिल्पेऽभिनिर्माण वाचा
अधमणिकस्यास्य लम्बोदरं विभिन्द्य तव हारं करिष्यामीति वा 'उत्तमर्णाधमणों
प्रयोक्तृग्राहकौ क्रमात्' इत्यमरः ॥ ४४ ॥
 
एकेनैव समुतो हरगिरिभ्यां त्रिलोकी जिना
यस्याष्टादशभिर्भुजैरवसरः शत्रस्य नासादितः । .