This page has not been fully proofread.

0
 
दीपिकाख्यव्याख्योपेतम् ।
 
रामः ( सावष्टम्भम् ) -
कल्पान्ते यत्कृतान्तैरिव वरसमरप्राङ्गणे रामचन्द्रो
चाणैरुत्तीर्णशाणैर्नवभिरपि दशग्रीवमूर्ध्नो नवैव ।
चिच्छेदालोक्य भूयः स पुनरपि नवान्विस्मितः सन्मुहूर्त
विश्रम्यागस्त्यदत्तं तदनु रिपुवधायाददे ब्राह्ममत्रम् ॥ ४१॥
 
१४.]
 
कल्पान्त इति । रामः रणे नवभर्वाणैर्नव एव रावणस्य मस्तकान् चकर्त 1
चाणसाफल्ये विशेषणद्वयम् । भूयः कर्तनानन्तरं स रामः पुनः अभिनवान्नवीभूता-
नालोक्य विस्मितः सन्मुहूर्त विश्रम्यागस्त्यदत्तं ब्रह्मास्त्रं आददे गृहीतवान् । अत्रेयं
कथा । ब्रह्मणास्य वरो दत्तो यावदशमो मध्यस्थो मूर्धा न विच्छिन्नस्तावदन्यानि
शिरांसि कृत्तान्यप्यकृत्तानि भविष्यन्तीति ॥ ४१ ॥
 
पैतामहं रघुपतिः समरेऽतिकोपा-
द्वाणं मुमोच हृदये दशकन्धरस्य ।
भित्त्वा स तद्धृदयशोणितशोणगात्रः
 
प्राणान्विवेश धरणीतलमस्य नीत्वा ॥ ४२ ॥
 
२०१
 
पैतामहमिति । पैतामहं ब्रह्मास्त्रं सः वाणः तत् : हृदयं भित्त्वा अस्य रावणस्य
प्राणान्नोत्वा भुवि विवेशेत्यन्वयः ॥ ४२ ॥
 
मन्दोदरी सकलसुन्दरसुंदरीभिः परिवृता गलदविर-
लनेत्रजलप्रवाहैः सीतापतेर्विरहानलेन सह लंकापतेः
प्रतापानलं निर्वार्पियन्ती हाहाकारं घोरफुत्कारैः
कुर्वन्ती झटिति त्रिकूटाचलादुत्पत्य समरभूमौ महा-
निद्रां गतस्य निजप्राणनाथस्य लंकापतेश्चरणकमल-
योर्निपत्य ॥