This page has not been fully proofread.

दीपिकाख्यव्याख्योपेतम् ।
अपि च -
 
आश्चर्ये कार्तवीर्यार्जुनभुजविपिनच्छेदलीलाविदग्धः
केयूरग्रन्थिरत्नोत्ककषणरणत्कारघोरः कुठारः ।
तेजोभिः क्षत्रगोत्रत्रलयसमुदितद्वादशार्कानुकारः
किं न प्राप्तः स्मृतिं ते स्मरदहनधनुर्भङ्ग पर्युत्सुकस्य ॥३७॥
 
पुनराश्चर्यमनुवदति- हे राम, मदीयः कुठार: ते तव स्मृतिं स्मरणविपर्य न
प्राप्तः ? किन्तु प्राप्त एव । मामनादृत्यैतत्कृतमिति भावः । ममानादरणमेवाश्चर्यम् ।
किंविशिष्टः कुठारः । कृतवीर्यस्थापत्यं कार्तवीर्यः स चासावर्जुनश्च तस्य भुजा एक
विपिनं तस्य उच्छेदलीलायां विदुग्धः । पुनः तेजोभिः क्षत्रगोत्रप्रलये समुदिताः
उदयं प्राप्ताः द्वादशार्का: द्वादशसूर्यास्तेपामनुकार: अनुकर्ता । अन्यत्सुगमम् ।
" कर्पणं घर्पणं समे' इति धरणिः । 'बहुत्वमुत्करो व्रातः ' इत्यपि ॥ ३७ ॥
 
१. ]
 
रामः सानुनयम्-
बाह्रोर्बलं न विदितं न च कार्मुकस्य
त्रैयम्बकस्य महिमा न तवापि सैषः ।
तच्चापलं परशुराम मम क्षमस्व
 
डिम्भस्य दुर्विलसितानि मुदे गुरूणाम् ॥ ३८ ॥
 
२१
 
वाहोरिति । त्र्यम्बको रुद्रस्तस्येदं धनुस्त्रयम्बकम्' तनिमेति वा पाठ: ' तन्त्र
तनोर्भावस्तनिमा निःसारत्वमिति । ' डिम्भो माणवकः शिशुः' इति विश्वः । एतेन
धनुर्भङ्गस्येपत्करत्वं कथितम् ॥ ३८ ॥
 
अपि च -
 
अयं कण्ठः कुठारस्ते कुरु राम यथोचितम् ।
निहन्तुं हन्त गोवित्रान्न शूरा रघुवंशजाः ॥ ३९ ॥
 
इदानीं गर्भिताक्षेपमाविष्करोति-अयमिति सुगमम् ॥ ३९ ॥