This page has not been fully proofread.

२००
 
हनुमन्नाटकं -
 
तत्र मन्दोदरी जानकी च
रे रावणास्तमुपयातु सह त्वयार्क:
श्रीराघवे समरमूर्ध्नि कृतप्रतिज्ञे ।
मन्दोदरी जनकजास्त नगावलम्बि-
[ अङ्कः
 
न्यर्के चकोरकवधूरिव चक्रवाकी ॥ ३८ ॥
 
रे रावणेति । अद्यैनं हनिष्यामि इति प्रतिज्ञा अर्के अस्तनगावलम्विनि मन्दोदरी
जनकजा च अस्तशैलस्थेऽर्केच चकोरकवधूरिवासीत् । यथा चकोरी रात्रि -
च्छति चन्द्रकरामृतानुभवात्तथा च मन्दोदरी रात्रौ राक्षसानां वलातिशयात्तथा
सीता रात्रौ रक्षोतिशयाद्रामप्रतिज्ञाभयादिति भावः ॥ ३८ ॥
 
रामः ( रावणम्प्रति ) -
एकस्मिन्विनिपातितेऽपि शिरसि क्रोधोपशान्तिः कुतः
किन्तु स्वानुनयाय सूर्धनिधनं दृष्टं न यत्रारिणा ।
त्वत्तो मूर्धबहुत्वतः फलमिदं सभ्यङ् मया लभ्यते
छिन्नं छिन्नमवेक्ष्य राक्षसपते स्वं दुर्नयं ज्ञास्यसि ॥ ३९ ॥
 
एकस्मिन्निति । स्वस्य छेत्तुं अनुनयाय मा छिन्धीत्यादिस्तवाय यत्र शिरःकर्तने.
एकस्मिन्नेव शिरसि कृत्ते अन्यच्छिरस्तस्मिन्कृत्ते अन्यच्छिरोभावादनुभवाभावः ।
छिन्नं छिन्नं मूर्धानम् ॥ ३९ ॥
 
( अत्यन्तद्रुततरं श्रीरामबाणादिताडनव्यग्रो रावण:)-
धनुर्निस्त्रिंशादिप्रहरणगलच्छेदकुपितो
दशास्यः स्वान्मूर्ध्नो रघुपतिशरव्रातदलितान् ।
करैरे कैरेकैर्नभसि भृशमादाय युगपत्
क्षिपन्नान्यैरन्यैश्चपलयति दोर्विंशतिमपि ॥ ४० ॥
 
धनुरिति । एकैरेकैः करैः भृशं मूर्ध्नः अन्यैरन्यैः करैर्भृशं नभसि विक्षिपन्सन्यु-
गपदेव विंशतिं चपलचति ॥ ४० ॥ ॥
 
1974