This page has not been fully proofread.

·
 
.
 
१४.]
 
दीपिकाख्यव्याख्यापेतम् ।
 
( रामभुजदण्डौ)
आकृष्टे युधि कार्मुके रघुपतेर्वा
मोऽब्रवीद्दक्षिणं
दानादान सुभोजनेषु पुरतो युक्तं किमित्थं तव ।
 
वामान्यः पुनरत्रवीन्मम न भी: प्रष्टुं जगस्त्वामिनं
छेत्तुं रावणवत्रपंक्तिमिति यो दद्यात्स वो मंगलम् ॥ ३५॥
 
१९९
 
आकृष्टे इति । युधि धनुध्याकृष्टे सति रघुपतेः रामस्य वामः आयुधिहस्तः
दक्षिणं आयुधिहस्तं अनवोदित्यन्वयः । 'पाणावायुधि न द्वयोः' इति शब्दशेषे । आयु-
घानि धीयन्ते रेखाद्वारेणास्मिन्नित्यायुधि बद्धशृङ्खलेयं पद्मजाति: । 'स्वरयोगवियो-
गाभ्यामर्थदावद्धशङ्खला' इति चित्तालंकृतौ । दानादानसभोजनेषु त्वं पुरतः पुरो-
वर्ती अधुना इत्थं पृष्ठतो गमनं किं युक्तं वामान्यो दक्षिणहस्तः पुनर्वासमब्रवीत् हे
वाम ! रणे मम भीर्भयं न रावणवऋपंक्ति भेत्तुं, प्रष्टुमागतोस्मीतिशेषः । इति वदन्सः
दक्षिण: वो मङ्गलं दद्यात् ॥ ३५ ॥
 
कुशिकसुतसपर्यादृष्टदिव्यास्त्रमन्त्रो
भृगुपतिसहयोद्धा वीरभोगीनबाहुः ।
 
दिनकरकुलकेतुः कौतुकोत्तानचक्षु-
बहुमतरिपुकर्मा कौतुकी रामदेवः ॥ ३६ ॥
यद्रावणो बहुभिरेव भुजैः करोति
तद्राघवः प्रतिकरोति भुजद्वयेन ।
कर्मद्वयं यदपि तुल्यफलं तथापि
रक्षः पतेर्दशगुणं नरवीरतुल्यम् ॥ ३७॥
 
कुशिकेति । तदा रामदेवः कौतुकी युद्धोत्सवी यात इति शेषः । वीराणां भोगाय
योग्यौ बाहू यस्य सः यद्वा वी रमणीयो भोगीनो वासुकिस्तद्वद्वाहू यस्य बहुमतं
रिपुभिः कर्म शौर्य यस्य सः ॥ ३६ ॥ ३७ ॥